Enter your Email Address to subscribe to our newsletters
– ट्रैवलमार्ट्-मध्ये “द फ्यूचर ऑफ फिल्म सेक्टर इन मध्य प्रदेश : फ्रॉम रील टू रियल ग्रोथ” इति विषयपरं पैनल् चर्चासत्रम्
– मध्यप्रदेशे पर्यटनअधिकाऱः प्रेरिताः ऊर्जस्विनश्च सन्ति — चलचित्रअभिनेता गजराजरावः
भोपाल, १२ अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य पर्यटन-संस्कृतिविभागस्य अपरमुख्यसचिवः एवं मध्यप्रदेश पर्यटनबोर्डस्य प्रबन्धनसंचालकः शिवशेखरशुक्लः अवदत् यत् मध्यप्रदेशः स्वयमेव चलचित्रनगरं अस्ति। अस्य प्रदेशस्य प्रत्येकं स्थानं मनोहरं रमणीयं च अस्ति, यत् चलचित्रस्य सौन्दर्यं संवर्धयति। मध्यप्रदेशः चलचित्रनिर्माणाय सुरक्षितं शान्तिप्रियं च राज्यं अस्ति। अस्य प्रमुखविशेषता “लाइन्-प्रोड्यूसराः” सन्ति, ये निर्मातॄणां निर्देशकाणां च कृते चलचित्रनिर्माणं सरलम् अकुर्वन्।
अपरमुख्यसचिवः शुक्लः भोपालनगरे कुशाभाऊठाकरे सम्मेलनकेन्द्रे आयोजिते त्रिदिवसीये मध्यप्रदेश ट्रैवेल् मार्ट् इत्यस्य द्वितीयदिवसे रविवासरे “द फ्यूचर ऑफ फिल्म सेक्टर इन मध्य प्रदेश : फ्रॉम रील टू रियल ग्रोथ” इत्यस्मिन् विषयेषु पैनल् चर्चासत्रे भाषमाणः आसीत्। अस्मिन् चर्चासत्रे मध्यप्रदेशं वैश्विकचलचित्रकेन्द्रं कर्तुं मंथनं जातम्। तस्मिन् समये विशेषज्ञैः भविष्यस्य रूपरेखा अपि प्रदर्शिता।
एम्.पी. टूरिज़्म् बोर्डस्य अपरप्रबन्धसंचालिका विदिशा मुखर्जी अवदत् — “मध्यप्रदेशः अधुना चलचित्रनिर्माणाय सर्वप्रियं राज्यं जातम्। तस्य कारणत्रयं अस्ति — चलचित्रमित्रनीति (Film Friendly Policy), कार्यसुलभता (Ease of Doing Business) तथा सुन्दराः स्थलानि। फिल्मपर्यटननीतौ स्थानीयसंस्कृतिः, नारीकेन्द्रितविषयाः, प्रदेशीयभाषासु चलचित्रनिर्माणं, स्थानीयकलाकाराणां सहभागः च प्रोत्साहितः। पारदर्शकः शीघ्रः च एकविंडोप्रणाली चलचित्रनिर्माणं सुगमं कृतवती। एतत् अपेक्षया अधिकं तु अत्रस्थाः जनाः स्नेहपूर्णाः, ये चलचित्रनिर्माणाय गृहेव वातावरणं ददति।”
मध्यप्रदेशः प्रतिभायाः नर्सरी — गजराजरावः
प्रसिद्धः चलचित्रअभिनेता गजराजरावः अवदत् — “मध्यप्रदेशे पर्यटनअधिकाऱः प्रेरिताः ऊर्जस्विनश्च सन्ति। ते स्वकर्तव्येषु समर्पिताः। अस्य प्रत्यक्षपरिणामः चलचित्रनिर्माणे सुगमता। स्थानिकजनानां सौहार्दपूर्णव्यवहारः एतत् अधिकं सुखदं करोति। मध्यप्रदेशस्य साहित्यं रंगमञ्चं च प्राचीनम्। अयं प्रदेशः प्रतिभायाः नर्सरी इव अस्ति। मुम्बईतः सहायककलाकारान् आनयितुं आवश्यकता नास्ति। अत्रैव पर्याप्ताः योग्याः कलाकाराः सन्ति, ये निर्मातॄणां कार्यं सरलयन्ति।”
मध्यप्रदेशे आगमनं मातुलगृहे आगमनवत् — सुनीता राजवरः
प्रसिद्धा अभिनेत्री सुनीता राजवरः अवदत् — “गुल्लक् तथा पंचायत् इत्ययोः कार्ये कृत्वा अहं मध्यप्रदेशवासीव अभवम्। अत्रस्थं वातावरणं मातुलगृहगमनवत् अनुभूयते। अत्र आगमनं आत्मीयानुभववत् अस्ति। एकः कलाकारः, निर्माता, लेखकः च अत्र बन्धं अनुभवति। मध्यप्रदेशस्य मृत्तिकायां मम चलचित्रजीवनस्य प्रारम्भः जातः, अहं तस्य कृतज्ञास्मि। अत्रस्थाः कलाकाराः मुम्बईकलाकारात् न हीनाः, अपि तु श्रेष्ठाः एव।
चलचित्रस्य आवश्यकसर्वतत्त्वानि मध्यप्रदेशे एव — विशालः फुरिया
प्रसिद्धनिर्देशकः विशालः फुरिया अवदत् — “वर्षे २०१६–१७ सावधान् इंडिया इत्यस्य कतिपय अङ्काः अत्र एव चित्रिताः आसन्। तदा स्थानिकजनानां सौम्यव्यवहारः मनः हरितवान्। ततः सः मुम्बईं गत्वा स्वसहकाऱेभ्यः अत्रचित्रणस्य अनुभवः आख्यात्। एकस्मिन् पटकथायाम् यानि तत्त्वानि अपेक्षितानि, सर्वाणि तानि मध्यप्रदेशे सुलभानि।”
मध्यप्रदेशीयाः कलाकाराः परिश्रमी उत्तमाश्च — मोनिषा आडवाणी
एम्मे एण्टरटेनमेण्ट् संस्थायाः मोनिषा आडवाणी अवदत् — “मध्यप्रदेशे उत्तमा संजालसंयोगव्यवस्था अस्ति। अत्रस्थाः लाइन् प्रोड्यूसराः कुशलतया कार्यं कुर्वन्ति। अत्रस्थाः कलाकाराः अत्यन्तं परिश्रमीः सन्ति। चलचित्रनिर्माणस्य अनुभवः सुखदः, गृहसमानः च भवति। शासनस्य सहयोगीपर्यावरणं तथा चलचित्रपर्यटननीतेः आकर्षकाः सब्सिडी इत्येतयोः कारणाभ्यां अन्तर्राष्ट्रीयनिर्मातृभ्यः अपि आकर्षणं वर्धते।”
मध्यप्रदेशीयकलाकारैः सह कार्यं कर्तुं सौभाग्यम् — स्वानन्दः किरकिरे
लेखकः, गायकः, सङ्गीतकारः, अभिनेता च स्वानन्दः किरकिरे अवदत् — “भोपालं कलाकाराणां नगरम्। एषां कलाकाराणां न केवलं सौभाग्यम्, अपि तु निर्मातॄणां सौभाग्यमपि यत् वयं अत्र आगत्य कार्यं कुर्मः। अत्रस्थं सांस्कृतिकं वारस्यम् अतिशयम् समृद्धम्। अस्य भूमेः स्वीयाः कथाः सन्ति, याः जगतः समक्षं प्रस्तुतुं पर्यटनविभागेन यत् प्रयासः कृतः, सः प्रशंसनीयः।”
स्पेन्-देशीयचलचित्रनिर्मात्री एना सौरा अवदत् — “मध्यप्रदेशः अन्तर्राष्ट्रीयचलचित्रबाजारे अपि स्वस्थानं प्राप्तवान्। अत्र शासनस्य शूटिंग्-फ्रेंडली नीति, आकर्षका सब्सिडी च पोस्ट्-प्रोडक्शन् सुविधाः च सन्ति, येन निकटभविष्ये अन्तर्राष्ट्रीयचलचित्रनिर्माणं अत्र दृश्यं भविष्यति।” स्पेन् फिल्म् कमीशनस्य लारा मोलिना अवदत् — “मध्यप्रदेशे चलचित्रनिर्माणं सुखदं अनुभवः आसीत्। अहं पुनः अत्र आगत्य कार्यं करिष्यामि तथा अन्यानपि निर्मातॄन् अत्र आमन्त्रयिष्यामि।”
मध्यप्रदेशे चित्रणं बाल्यस्मरणवत् — शिवांकितः परिहारः
प्रसिद्धः अभिनेता शिवांकितः सिंहपरिहारः अवदत् — “अहं मध्यप्रदेशीयः अस्मि। अत्र मम बाल्यं व्यतीतम्। अत्र चित्रणं मम बाल्यजीवनस्य पुनः अनुभव इव अस्ति।” सः सेशनस्य मॉडरेटरः आसीत्। चर्चासत्रे मध्यप्रदेशस्य चलचित्रक्षेत्रे प्रगत्याः, चित्रणयोग्यस्थलानां, चलचित्रपर्यटननीतेः च आधारेण चलचित्रस्य प्रदर्शनं अपि कृतम्।
______________
हिन्दुस्थान समाचार