Enter your Email Address to subscribe to our newsletters
लखनऊ, १२ अक्टूबरमासः (हि.स.)। भारतरत्नः लौहपुरुषः सरदारवल्लभभाइपटेलस्य १५०तमजयंतीसमये सर्वत्र प्रदेशे ३१ अक्टूबरदिने “रन् फॉर यूनिटी” नामकः कार्यक्रमः आयोज्यते। शासनं भारतीयजनतापक्षश्च मिलित्वा अस्य आयोजनं भव्यं दिव्यं च करिष्यतः। तत्रैव ३१ अक्टूबरतः २६ नवम्बरपर्यन्तं “सरदार @१५० यूनिटी मार्च” अपि आयोजितः भविष्यति। एतां सूचना मुख्यमन्त्रिणा योगी आदित्यनाथेन रविवासरे पत्रकारसम्मेलने प्रदत्ता।
मुख्यमन्त्री योगी आदित्यनाथः उक्तवान् यत् यूनिटी मार्चस्य भागरूपेण प्रदेशस्य सर्वेभ्यः जनपदभ्यः क्रीडाकारा:, कलाकाराः च पञ्च-पञ्च युवा मिलित्वा भागं ग्रहीष्यन्ति। एते सर्वे युवा लौहपुरुषस्य सरदारवल्लभभाइपटेलस्य जन्मभूमेः आरभ्य केवडिया गुजरातपर्यन्तं १५० किलोमीटरदीर्घां यात्रां करिष्यन्ति। एते सर्वे चत्वारः प्रमुखकेन्द्रान् गत्वा तत्रतः बसयानं कृत्वा जन्मभूमिं प्रति यास्यन्ति। ततः पश्चात् ते सर्वे १५० किलोमीटरदीर्घायां पदयात्रायां सहभागी भविष्यन्ति। एषा राष्ट्रीयपदयात्रा गुजरातराज्ये करमसद् नाम्नः सरदारस्य जन्मभूमेः आरभ्य “स्टैच्यू ऑफ यूनिटी” केवडिया पर्यन्तं भविष्यति। अस्मिन् राष्ट्रीययात्रायां सहस्रशः युवा भागं ग्रहीष्यन्ति। ते सर्वे जनजागरणाभियानस्य विविधकार्यक्रमान् अग्रे नयिष्यन्ति।
स्थानिकस्तरे अपि आयोज्यन्ते विविधकार्यक्रमाः
मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् प्रदेशस्य प्रत्येकं लोकसभाक्षेत्रे त्रिदिवसीया ८–१० किलोमीटरदीर्घा पदयात्रा भविष्यति, या सर्वासु विधानसभासु गमिष्यति। पदयात्रापूर्वं स्थानिकस्तरे जनमानसस्य जागरणाय अनेके कार्यक्रमाः आयोज्यन्ते। तत्र भारतस्य ऐक्ये अखण्डतायां च सरदारपटेलस्य योगदानं विषयीकृत्य निबन्धलेखनम्, वादविवादप्रतियोगिता, जीवनचरित्राधारितः संगोष्ठी, नाटकाः च भविष्यन्ति। युवानां कृते “नशामुक्तभारत” इति शपथग्रहणम्, “वोकल फॉर लोकल” तथा “लोकल फॉर ग्लोबल” इत्येतयोः अभियानयोः आयोजनं च करिष्यते। योगस्वास्थ्यसंबद्धाः शिविराः अपि स्थाप्यन्ते। सर्वप्रदेशे विशेषः स्वच्छताअभियानः च चलिष्यति। पदयात्रासमये स्थानिकसमित्याः, समाजसेविसंस्थाः, सांस्कृतिकसंगठनानि च सरदारपटेलस्य प्रतिमायां पुष्पार्चनं श्रद्धाञ्जलिप्रदानं च करिष्यन्ति।
सरदारपटेलस्य दृढनिश्चयेन एकीकृतं भारतम्
योगी आदित्यनाथः उक्तवान् — “देशे यदा शतशः रियासताः आसन्, तदा ताः भारतगणराज्यस्य भागं कर्तुं लौहपुरुषेण अद्भुतदूरदर्शितया सूक्ष्मबुद्ध्या च कार्यं कृतम्। अद्यतनं भारतरूपं तस्यैव प्रयत्नस्य फलम्। तस्मिन्काले कतिपयः रियासताः (यथा जूनागढस्य नवाबः, हैदराबादस्य निजामः च) स्वतंत्रतां स्थगयितुं इच्छन्तः आसन्, किन्तु सरदारवल्लभभाइपटेलस्य दृढनिश्चयस्य पुरतः तेषां योजना निष्फला अभवत्। अन्ततः लौहपुरुषस्य निर्णयेन तौ अपि भारतस्य भागौ अभवतः।”
एतेषु अवसरेसु उपस्थिताः आसन् — उत्तरप्रदेशभाजपाः अध्यक्षः भूपेन्द्रसिंहचौधरी, प्रदेशमहामन्त्री संजयरायः, उपमुख्यमन्त्री ब्रजेशपाठकः, मन्त्री सुरेशखन्ना च।
--------------
हिन्दुस्थान समाचार