Enter your Email Address to subscribe to our newsletters
पटना, 13 अक्टूबरमासः (हि.स.) बिहारराज्यविधानसभानिर्वाचनस्य 2025 तमस्य द्वितीयचरणस्य नामनिर्देशनक्रिया अद्य औपचारिकरूपेण आरभ्यते। अस्मिन् चरणे आहत्य 122 आसन्दिषु मतदानं भविष्यति।
निर्वाचनआयोगेन उक्तम् यत् द्वितीयचरणस्य अधिसूचनायाः प्रकाशनेन सह एव नामनिर्देशनप्रक्रिया अद्य आरभ्यते, या 20 अक्टूबरपर्यन्तं प्रवर्तिष्यते। नामनिर्देशनपत्राणां परीक्षणं 21 अक्टूबरदिने भविष्यति, यदा च प्रत्याशी 23 अक्टूबरपर्यन्तं स्वनामानि प्रत्याहर्तुं शक्नुवन्ति।
द्वितीयचरणे 11 नवम्बरदिने मतदानं करिष्यते तथा 14 नवम्बरदिने मतगणना भविष्यति। सम्पूर्णनिर्वाचनप्रक्रिया 16 नवम्बरपर्यन्तं सम्पन्ना भविष्यति। उल्लेखनीयं यत् सम्प्रति राज्ये प्रथमे चरणे नामनिर्देशनप्रक्रिया प्रवृत्ता अस्ति, या 17 अक्टूबरपर्यन्तं चलिष्यति।
हिन्दुस्थान समाचार / Dheeraj Maithani