विकसितभारतविल्डाथोनः :- मघ्यप्रदेशस्य चत्वारः विद्यालयाः अद्य आत्मनिर्भरभारतविषये प्रकल्पान् निर्मास्यन्ति
भोपालम्, 13 अक्टुबरमासः (हि.स.)। भारतविल्डाथोन–2025 इत्यस्य कृते मघ्यप्रदेशस्य चत्वारः विद्यालयाः “स्पॉटलाइट् स्कूल्” इत्याख्यया चयनिताः सन्ति। एतेषु विद्यालयेषु अद्य सोमवासरे प्रातः 10:00 वादनात् 12:00 वादनपर्यन्तं स्वदेशी, “वोकल् फॉर लोकल्”, आत्म
लोक शिक्षण संचालनालय (फाइल फोटो)


भोपालम्, 13 अक्टुबरमासः (हि.स.)। भारतविल्डाथोन–2025 इत्यस्य कृते मघ्यप्रदेशस्य चत्वारः विद्यालयाः “स्पॉटलाइट् स्कूल्” इत्याख्यया चयनिताः सन्ति। एतेषु विद्यालयेषु अद्य सोमवासरे प्रातः 10:00 वादनात् 12:00 वादनपर्यन्तं स्वदेशी, “वोकल् फॉर लोकल्”, आत्मनिर्भरभारत, समृद्धभारत इत्येतेषु विषयेषु प्रकल्पाः निर्मास्यन्ते। एतेभ्यः विद्यालयेभ्यः केन्द्रीयशिक्षामन्त्री धर्मेन्द्र-प्रधानः नवदेहलीतः आभासरूपेण संवादं करिष्यति।

जनसम्पर्काधिकारी मुकेश-मोदिः निवेदितवान् यत् भारतविल्डाथोन–2025 इत्यस्मिन् मघ्यप्रदेशस्य ये विद्यालयाः चयनिताः, ते सन्ति— शासनकमलानेहरू–सांदीपनिकन्या–उच्चतरमाध्यमिकविद्यालयः टीटीनगरस्थितः भोपाले, शासनसुभाष–उत्कृष्टमाध्यमिकविद्यालयः शिवाजीनगरस्थितः भोपाले, शासनसांदीपनिविद्यालयः रतलामे, शासनसांदीपनिविद्यालयः नौगांव–छतरपुर–जनपदे। एते स्पॉटलाइट्–विद्यालयाः प्रदेशस्थानाम् अन्यानां विद्यालयानां प्रेरणाकेन्द्ररूपेण भविष्यन्ति तथा 13 अक्टुबरात् 31 अक्टुबरपर्यन्तं प्रवर्तमानेषु कार्यक्रमेषु मार्गदर्शनं दास्यन्ति।

उल्लेखनीयं यत् मघ्यप्रदेशे 15 सहस्रात् अधिकानि विद्यालयानि अस्मिन् आयोजनॆ सहभागीभवन्ति। सर्वे विद्यालयाः 13 अक्टुबरातः 31 अक्टुबरपर्यन्तं चतुर्षु विषयेषु प्रकल्पान् प्रोटोटाइपान् वा निर्मास्यन्ति। निर्मिताः प्रकल्पाः पोर्टले अपलोड् करिष्यन्ति। तेषां मूल्यांकनं केन्द्रसर्वकारस्य शिक्षामन्त्रालयेन क्रीयते। मूल्यांकनानन्तरं तेषां पुरस्कारप्रदानं भविष्यति। केन्द्रशिक्षामन्त्रालयेन चयनितविद्यालयेभ्यः एककोटिरूप्यकाणां पुरस्कारवितरणं निर्णयितम् अस्ति।

विकसितभारतविल्डाथोन–2025 इत्यस्मिन् देशस्य 3 सहस्रलक्षात् अधिकानि विद्यालयानि सहभागीभवन्ति। प्रत्येके विद्यालये चत्वारः शिक्षकाणां दलं निर्मितम् अस्ति। शिक्षकाः विद्यार्थीभिः सह प्रकल्पनिर्माणे नियोजिताः सन्ति। अस्य कार्यक्रमस्य उद्देश्यः विद्यालयानां प्रतिभानां प्रदर्शनम् इति।

हिन्दुस्थान समाचार / अंशु गुप्ता