अयोध्या अनुप्रयोगस्य माध्यमेन आविश्वतः श्रद्धालवः प्रज्वालयितुं शक्नुवन्ति ‘एको दीपो रामनाम्नः’
श्रीअयोध्याजीतीर्थविकासपरिषदः नूतनः उपक्रमःगृह एव उपविश्य संपूर्णविश्वतः जनाः दीपं प्रज्वालयितुं शक्नुवन्ति। अयोध्यायां दीपोत्सवः वैश्विकस्तरे जनान् संयोजयन् भूत्वा आयोजनरूपेण प्रसिद्धः जातः - पर्यटनमन्त्री । लखनऊनगरम्, 13 अक्टूबरमासः (हि.स.)। भगव
अयोध्या अनुप्रयोगस्य माध्यमेन आविश्वतः श्रद्धालवः प्रज्वालयितुं शक्नुवन्ति ‘एको दीपो रामनाम्नः’


श्रीअयोध्याजीतीर्थविकासपरिषदः नूतनः उपक्रमःगृह एव उपविश्य संपूर्णविश्वतः जनाः दीपं प्रज्वालयितुं शक्नुवन्ति। अयोध्यायां दीपोत्सवः वैश्विकस्तरे जनान् संयोजयन् भूत्वा आयोजनरूपेण प्रसिद्धः जातः - पर्यटनमन्त्री ।

लखनऊनगरम्, 13 अक्टूबरमासः (हि.स.)। भगवतः श्रीरामस्य पावननगरी अयोध्या पुनरपि दिव्यता–भक्त्योरालोकैः जगमगितुं सज्जा अस्ति।

दीपोत्सवस्य–2025 भव्यस्य आयोजनस्य सज्जताः अन्तिमचरणे सन्ति। अस्मिन् वर्षे आयोजनसमये षड्विंशतिलक्षात् अधिकानां दीपानां प्रज्वलनम् तथा द्विसहस्राधिकश्रद्धालूनां सामूहिकमहाआरत्याः आयोजनं कृत्य द्वौ नूतनौ विश्वविक्रमौ स्थापयिष्येते, यस्य साक्षिणः देशविदेशयोः कोटयः श्रद्धालवः भविष्यन्ति।

ये च भक्ताः प्रकाशपर्वस्य भागं न भवितुम् अर्हन्ति, तेषां कृते श्रीअयोध्यातीर्थविकासपरिषद् एकां भावनासम्बद्धां अभिनवां डिजिटलीयां पहलाम् आरभ्य ‘एकं दीपं रामनाम्नः’ इति कार्यक्रमस्य आरम्भं कृतवती अस्ति। एतद् सूचना उत्तरप्रदेशस्य पर्यटन–संस्कृतिमन्त्री जयवीरसिंहः इत्यनेन सोमवासरे प्रदत्ता।

पर्यटनमन्त्री अवदत् यत् ‘एकं दीपं रामनाम्नः’ इत्यस्य अन्तर्गते श्रद्धालवः ऑनलाइन–माध्यमेन पञ्जीकरणं कृत्वा सद्यस्कमाध्यमेन दीपं प्रज्वालयन्तः प्रभोः श्रीरामस्य चरणयोः स्वश्रद्धां समर्पयितुं शक्नुवन्ति। तथा च स्वप्रियजनान् प्रति मंगलकामनाः प्रेषयितुं अपि शक्नुवन्ति। सः अवदत् यत् अयोध्यायां दीपोत्सवः इदानीं वैश्विकस्तरे जनान् संयोजयन् आयोजनरूपेण परिवर्तितः अस्ति। ‘एकं दीपं रामनाम्नः’ इत्येवंप्रकारेण पहलया दीपोत्सवः वैश्विकस्तरे समावेशी च जातः इति।

आविश्वतः जनाः करिष्यन्ति दीपप्रज्वलनम्

पर्यटनमन्त्री अवदत् यत् श्रीरामजन्मभूमेः प्राणप्रतिष्ठानन्तरम् अयोध्यां प्रति श्रद्धालूनां संख्यायां महद्वृद्धिः अभवत्। अनेकाः श्रद्धालवः भागग्राहिणः भूत्वुम् इच्छन्ति। एतद् दृष्ट्वा ‘दिव्य अयोध्या’ इत्यनेन मोबाइल–अनुप्रयोगेन माध्यमेन विश्वभरात् जनानां कृते डिजिटली दीपप्रज्वलनस्य व्यवस्था कृताः अस्ति।

‘रामज्योतिः’ संकल्पपैकेजः

‘दिव्य अयोध्या’ अनुप्रयोगे श्रद्धालूनां कृते त्रिविधाः पैकेजाः उपलब्धाः सन्ति।

‘रामज्योति’ नाम्ना 2100 रूप्यकाणां मूल्ये पुटस्य अयोध्यादीपोत्सव–2025 अन्तर्गतस्य ‘एकं दीपं रामनाम्नः’ अभियानस्य श्रेष्ठतमः संकल्पः अस्ति। अस्मिन् रोली, सरयू–जलम् (पीतलपात्रे), अयोध्यारजः, रामदानम्, मिश्री, रक्षासूत्रम्, हनुमानगढ्याः लड्डवः तथा चरणपादुका (खडाऊः) इत्येते अष्ट घटकाः सम्मिलिताः सन्ति। ऑनलाइन–संकल्पस्य पूर्तौ एषः सर्वः पवित्रप्रसादः प्रत्यक्षं गृहं प्रति प्रेषितः भविष्यति।

‘सीताज्योति’ एवं ‘लक्ष्मणज्योति’पुटौ

श्रद्धालूनां कृते ‘सीताज्योतिः’ इति नाम्ना 1100 रूप्यकाणां मूल्ये अपरः पुटः उपलब्धः अस्ति। एषः माता–सीतायै समर्पितः, यस्मिन् रोली, सरयू–जलम्, रामदानम्, रक्षासूत्रम्, हनुमानगढ्याः लड्डवः च पञ्च घटकाः सन्ति।

तथा ‘लक्ष्मणज्योति’ इति नाम्ना 501 रूप्यकाणां मूल्ये तृतीयः पुटस्य भगवान् रामस्य भ्रातुः लक्ष्मणस्य पराक्रम–सेवाभावाभ्यां समर्पितः अस्ति, यस्मिन् रोली, अयोध्यारजः, रामदानम्, रक्षासूत्रम्, मिश्री च एते पञ्च घटकाः सन्ति। भक्ताः ऑनलाइन–संकल्पं कृत्वा एतान् पुटान् स्वगृहे प्राप्य दीपोत्सव–2025 मध्ये आध्यात्मिकतया सहभागिनः भविष्यन्ति।

‘दिव्य अयोध्या’ दूरभाष -अनुप्रयोगस्य विशेषता

दिव्या अयोध्या इति पर्यटनम्–आधारितः मोबाइल–अनुप्रयोगः तथा वेब–पोर्टलः अस्ति, यः अयोध्याम् आगच्छतां भक्तानां पर्यटकानां च सुविधा–विचारं कृत्वा विकसितः अस्ति।

एषः आगन्तुकान् अयोध्यायां दर्शनीय–धार्मिकस्थलानां विषये सूचनां ददाति, तेषां भ्रमणं सुगमं करोति। अनुप्रयोगे एकस्मिन्नेव मंचे होटेल–होम–स्टे–आरक्षणं, मार्गदर्शक–यात्रा, टैक्सी–आरक्षणं, अन्यसेवाश्च उपलब्धाः सन्ति। एषः अनुप्रयोगः ‘होम स्टे योजना’ अन्तर्गतः विकसितः अस्ति, यस्य उद्देश्यं अयोध्यागमनस्य पर्यटकानाम् अनुभवम् अधिकम् उत्कृष्ठं कर्तुम् अस्ति।

‘दिव्य अयोध्या’ अनुप्रयोगं कोऽपि श्रद्धालुः गूगल प्ले स्टोरः इत्यस्मात् डाउनलोड् कर्तुं शक्नोति। इच्छुकाः श्रीअयोध्यातीर्थविकासपरिषदः आधिकारिक–जालपृष्ठे [www.divyaayodhya.com/bookdiyaprashad](http://www.divyaayodhya.com/bookdiyaprashad) गत्वा अपि सेवां प्राप्नुयुः।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani