Enter your Email Address to subscribe to our newsletters
तया संस्थया तामिलनाडुराज्यस्य औषधिनियन्त्रणाधिकृतान् श्रीसन-औषधिनिर्माणसंस्थां च उद्दिश्य सहसा निरीक्षणं कृतम्।
चेन्नईनगरम्, १३ अक्तुबरमासः (हि.स.)। प्रवर्तन-निदेशालयेन (ईडी) सोमवासरे कफसिरपपानजन्य-मरणप्रकरणे चेन्नईस्थित-श्रीसन-औषधिनिर्माण संस्थायाः स्थानेषु तथा तामिलनाडुराज्यस्य औषधिनियन्त्रणविभागस्य अधिकृतानां स्थानेषु सहसा निरीक्षणं कृतम्। केन्द्रीय-अनुसन्धानसंस्थया एतद् निरीक्षणं धनशोधन-निवारण-अधिनियमस्य २००२ (पीएम्एल्ए) इत्यस्य अधीनं कृतः।
अधिकृतस्रोताः उक्तवन्तः यत् येषु स्थानेषु ईडी निरीक्षणं जातम्, तेषु तामिलनाडुराज्यस्य औषधिनियन्त्रणकार्यालयस्य वरिष्ठ-अधिकृतानाम् आवासाः अपि अन्तर्भवन्ति। केन्द्रीय-अनुसन्धानसंस्थया एषा क्रिया मध्यप्रदेशतामिलनाडुराज्ययोः श्रीसन-औषधिनिर्माणसंस्थायाः विरुद्धं लघुवेला पूर्वं दत्त-आरक्षक-अभियोगानां आधारेण धनशोधन-विरोधि-नियमस्य अधीनं आपराधिक-प्रकरणस्य प्रवर्तनानन्तरं कृतम्।
उल्लेखनीयम् यत् “कोल्ड्रिफ्-कफसिरप” इत्यस्य पानात् मध्यप्रदेशे राजस्थानराज्ये च अल्पदिनेषु विंशताधिकबालानां मृत्युः अभवत्। तेषां मृत्यूनां कारणं वृक्क-नाशः आसीत्। श्रीसन-औषधिनिर्माणसंस्थायां “कोल्ड्रिफ्-कफसिरप” इत्यस्य उत्पादनं क्रियते। अस्य प्रकरणस्य सम्बन्धे संस्थायाः स्वामी त्रिसप्ततिवर्षीयः जी.रङ्गनाथनः नव-अक्तुबरतिथौ बन्धितः आसीत्।
हिन्दुस्थान समाचार / Dheeraj Maithani