Enter your Email Address to subscribe to our newsletters
रांची, 13 अक्टूबरमासः ( हि.स.)। झारखण्ड-राज्यस्य मुख्यमन्त्री हेमन्त-सोरेणस्य अध्यक्षतायां चतुर्दश-अक्टोबरदिनाङ्के मन्त्रिमण्डलस्य सभा भविष्यति। सभा अपराह्णे तृतीय-प्रहरात् प्रोजेक्ट-भवने आरभ्यते। मन्त्रिमण्डल-सचिवालय-निरीक्षणविभागस्य (समन्वय) पक्षतः सोमवासरे एषा सूचना प्रदत्ता।
अस्यां मन्त्रिमण्डल-सभायां बहवः महत्वपूर्ण-निर्णयाः स्वीकृताः भविष्यन्ति इति सम्भाव्यते।
उल्लेखनीयम् यत् तस्मात् पूर्वं मन्त्रिमण्डल-सचिवालय-निगराणी-विभागेन दश-अक्टोबर-दिनाङ्के सूचना प्रदत्ता आसीत् यत् मन्त्रिमण्डलसभा षोडश-अक्टोबरदिनाङ्के भविष्यति, किन्तु विभागेन सोमवासरे सभायाः समये परिवर्तनं कृतम्।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani