मध्यप्रदेशे उज्जयिन्याम् अद्य राज्यस्तरीया बालरङ्गप्रतियोगिता आयोजिताऽस्ति
उज्जैनम्, 13 अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिनीनगरे विद्यार्थिनां सांस्कृतिक–साहित्यिक–योगप्रतिभानां प्रोत्साहनार्थं विद्यालयशिक्षाविभागेन अद्य सोमवासरे राज्यस्तरीया “बालरङ्गप्रतियोगिता–२०२५” इत्यस्य आयोजनं क्रियते। आनन्दमङ्गलपरिसरे उज्जयि
लोक शिक्षण संचालनालय (फाइल फोटो)


उज्जैनम्, 13 अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिनीनगरे विद्यार्थिनां सांस्कृतिक–साहित्यिक–योगप्रतिभानां प्रोत्साहनार्थं विद्यालयशिक्षाविभागेन अद्य सोमवासरे राज्यस्तरीया “बालरङ्गप्रतियोगिता–२०२५” इत्यस्य आयोजनं क्रियते। आनन्दमङ्गलपरिसरे उज्जयिन्यां एषा प्रतियोगिता विविधेषु स्तरेषु भविष्यति, येषु विद्यालयस्तरः, विकासखण्डस्तरः, जिलास्तरः, सम्भागस्तरः, राज्यस्तरः, राष्ट्रीयस्तरश्च अन्तर्भवन्ति।

संयुक्तसञ्चालिका रमा नाहटे इत्यनेन उक्तं यत्, अस्यां प्रतियोगितायां प्रदेशस्य नानासम्भागेभ्यः आगता विद्यार्थी योगे, वेदपाठे, निबन्धलेखने, भाषणे, नृत्यनाटिकायां च स्वप्रतिभां प्रदर्शयिष्यन्ति। एषा प्रतियोगिता विद्यालयीनविद्यार्थिनां सर्वाङ्गीणविकासाय एकं महत्वपूर्णं मंचं भवति।

जिलाशिक्षाधिकारी आनन्दशर्मेण उक्तं यत्, “बालरङ्ग–संस्कृत–योग–प्रतियोगिता” आनन्दमङ्गलपरिसरे तथा नालन्दविद्यालये उज्जयिन्यां भविष्यति। प्रतियोगितोत्तरकाले प्रतिभागिविद्यार्थिभ्यः प्रशस्तिपत्राणि प्रदास्यन्ते। विद्यार्थिनां निवासव्यवस्था आनन्दमङ्गलपरिसरे एव कृता अस्ति। प्रतियोगितायां लगभग द्विशतपञ्चाशत् विद्यार्थी मार्गदर्शकशिक्षकसमेताः सहभागं करिष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता