घाटशिला विधानसभा उपनिर्वाचनस्य नामांकन प्रक्रिया शुभारब्धा
पूर्वी सिंहभूमः, 13 अक्टूबरमासः (हि.स.)।पूर्वी-सिंहभूम्-जिलस्य पञ्चचत्वारिंशत्-घाटशिला-विधानसभा-उपनिर्वाचनं प्रति सोमवासरे नामांकनस्य अधिसूचना प्रकाशिताऽभवत्। तस्यैव दिवसे राजपत्र-प्रकाशनेन सह स्थानीय-स्तरे अपि अधिसूचना निर्गताऽभवत्। अस्मिन् अवसरे
उपायुक्त कर्ण सत्यार्थी


पूर्वी सिंहभूमः, 13 अक्टूबरमासः (हि.स.)।पूर्वी-सिंहभूम्-जिलस्य पञ्चचत्वारिंशत्-घाटशिला-विधानसभा-उपनिर्वाचनं प्रति सोमवासरे नामांकनस्य अधिसूचना प्रकाशिताऽभवत्। तस्यैव दिवसे राजपत्र-प्रकाशनेन सह स्थानीय-स्तरे अपि अधिसूचना निर्गताऽभवत्। अस्मिन् अवसरे समाहरणालय-सभागारे आयोजितायां प्रेस-वार्तायां जिला-निर्वाचन-पदाधिकारी कर्ण-सत्यार्थी इत्यनेन नामांकन-प्रक्रियायाः तथा सम्पूर्ण-निर्वाचन-प्रक्रियायाः विषये प्रमुख-सूचनाः साझा कृताः।

सः अवदत् यत् अभ्यर्थिनः घाटशिला-अनुमण्डल-कार्यालयात् पूर्वाह्णे एकादशवादनात् अपराह्णे त्रिवादनपर्यन्तं नामांकन-प्रपत्रं क्रेतुं शक्नुवन्ति। अस्य उपचुनवः कृते घाटशिला-अनुमण्डल-पदाधिकारी श्रीमान् सुनील-चन्द्रः निर्वाची-पदाधिकारी नियुक्तः अस्ति। नामांकन-प्रक्रिया त्रयोदश-अक्टोबर-दिनाङ्कात् आरब्धा, यस्याः अन्तिम-तिथिः एकविंशतिः-अक्टोबर् २०२५ इति निर्धारितम्।

जिला-निर्वाचन-पदाधिकारी अवदत् यत् षष्ठ-अक्टोबर-दिनाङ्के उपचुनाव-घोषणानन्तरं जनपदे आदर्श-आचार-संहिता प्रवर्तिता अस्ति, च सर्वाणि मानक-संचालन-प्रक्रियाणि (SOP) यथावत् अनुवर्त्यन्ते। सः उक्तवान् यत् स्वतंत्रं, निष्पक्षं, पारदर्शकं च निर्वाचनं सम्पादयितुं प्रशासनं सर्वाणि आवश्यकानि प्रबन्धानि कृतवान्।

भारत-निर्वाचन-आयोगेन मतदातृ-सुविधार्थं ईवीएम्-यन्त्रेषु मतपत्रस्य रूपपरिवर्तनं कृतम्। अधुना ईवीएम्-यन्त्रेषु अभ्यर्थिनां वर्णचित्राणि तेषां नामभिः तथा क्रमाङ्कैः सह स्थापनानि भविष्यन्ति। आयोगस्य निर्देशानुसारं सर्वं कार्यं प्रवर्तते।

मतदातॄणां जागरूकतां वर्धयितुं स्वीप्-कार्यक्रमस्य अन्तर्गते विविधाः गतिविधयः आयोज्यन्ते, यैः मतदान-प्रतिशत-वृद्धिः भवेत् इति लक्ष्यं धार्यते।

जिलस्य सर्वासु अन्तरराज्य-अन्तर्जिला-चेक्-नाकासु कठोर-निगराणी स्थापिता अस्ति, यथा अवैध-मादक-द्रव्य-, सुरा-, नगद-धन-, उपहार-परिवहनं च असामाजिक-गतिविधयः च निवृत्यन्ते।

सः अपि उक्तवान् यत् सर्वेषु मतदान-केंद्रेषु “एश्योर्ड्-मिनिमम्-फैसिलिटी” सुनिश्चितं भविष्यति। दिव्याङ्ग-जनानां वरिष्ठ-नागरिकाणां च कृते गृह-मतदान-सेवा उपलभ्यते, तेषां केंद्र-आगमनार्थं वाहनानि, चक्रासनानि (wheelchairs), रैम्प्, स्वेच्छासेवकाः च व्यवस्थाप्यन्ते।

सामाजिकमाध्यमेन सहित-सर्वेषु माध्यमेषु अपि प्रशासनस्य विशेष-दृष्टिर्भविष्यति, यथा आदर्श-आचार-संहितायाः उल्लङ्घनं कर्तॄषु त्वरित-कार्यवाही करणीया।

---------------

हिन्दुस्थान समाचार