Enter your Email Address to subscribe to our newsletters
नवदेहली, 13 अक्टूबरमासः (हि.स.)। रेलमन्त्री अश्विनी वैष्णवः १५ तः १७ अक्टूबरपर्यन्त अत्र भारतमण्डपस्थले आयोज्यमानायाः षोडशम्या: अन्ताराष्ट्रियरेलोपकरणप्रदर्शनीयाः (आई.आर्.ई.ई. २०२५) उद्घाटनं करिष्यन्ति। सी.आई.आई. व्यापारमेला-परिषदस्य अध्यक्षः बी. त्यागराजनः सोमवासरे अत्र पत्रकारान् उक्तवान् यत् भारतीयोद्यमपरिषद् (सी.आई.आई.) इत्यनेन रेलमन्त्रालयस्य सहयोगेन आयोज्यमानायाम् अस्मिन् प्रदर्शनीयां चीनदेशः रूसदेशः च सहितानि पञ्चदशाधिकानि राष्ट्राणि चत्वारिशताधिकैः प्रदर्शकैः सह भागं ग्रहीष्यन्ति। ये त्रिंशद् सहस्राधिकान् अत्याधुनिकरेल-मेट्रो-उत्पादनान्, नूतनविन्यासान्, सततसमीकरणसमाधानांश्च प्रदर्शयिष्यन्ति। आई.आर्.ई.ई. २०२५ नामकम् एतत् एकं महत्त्वपूर्णं मंचम् अस्ति यः भारतीयं रेलतन्त्रं वैश्विकप्रौद्योगिकीमहागणैः सह संयोजयति। एषः भारतस्य अभियान्त्रिक-श्रेष्ठतां दर्शयति तथा सततं कुशलं च रेलसमाधानानां विषये सहयोगं प्रोत्साहयति। त्यागराजनः उक्तवान् यत् रेलमन्त्रालयसहयोगेन आई.आर्.ई.ई. २०२५ इत्यस्य उद्देश्यं नवोन्मेषस्य संवर्धनम्, व्यापारसन्धीनां सुविधा-प्रदानं, च रेलप्रौद्योगिक्यां भारतस्य वर्धमानक्षमतानां प्रदर्शनं च अस्ति। रेलवे-केन्द्रे सूचना-प्रचारविभागस्य कार्यकारीनिदेशकः दिलीपकुमारः उक्तवान् यत् आई.आर्.ई.ई. २०२५ नामकं वैश्विकरेलतन्त्रस्य एतत् सर्वातिबृहत् आयोजनं भवति। अस्मिन् पञ्चदशाधिकेषु देशेषु निर्मातारः भागं करिष्यन्ति। भारतस्य विषये अपि—भारतीयरेल, रेलपीएसयू, क्षेत्रीयरेलायाः उत्पादनएककाः च अपि अस्मिन् सम्मिलिष्यन्ते। ते उक्तवन्तः यत् २०४७ तमे वर्षे विकसितभारतलक्ष्ये आत्मनिर्भरभारतस्य महत्त्वं तावत् अस्ति, तथापि अन्ताराष्ट्रीयस्तरे ‘मेड् इन भारत्’ इत्यस्य प्रोत्साहने अपि एतदायोजनं प्रमुखभूमिकां वहति। ते अपि उक्तवन्तः यत् एषा प्रदर्शनी ‘मेक् इन भारत्’, ‘आत्मनिर्भर भारत्’ इत्यादिषु प्रयासेषु अन्तर्भूय रेलस्य आधुनिकीकरणे निर्माणे च आत्मनिर्भरतायाः भारतस्य महत्संकल्पलक्ष्यस्य साधनदिशायाम् एकः महान् चरणः इति दृष्टुं शक्यते। प्रदर्शनीयां रोलिङ्-स्टॉक-निर्माणम्, रेलविद्युतीकरणम्, सङ्केतदूरसञ्चारप्रणाल्यः, स्मार्ट्-रेलस्थानक-प्रौद्योगिक्यः, रेलेषु कृत्रिमबुद्धिः, स्वचालनम्, हरित-सतत-परिवहन-समाधानानि च समाविष्टानि भविष्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता