Enter your Email Address to subscribe to our newsletters
लखनऊ, 13 अक्टूबरमासः (हि.स.)।
उत्तरप्रदेशपर्यटनविभागः ‘सेवन स्टार्स लग्ज़री हॉस्पिटैलिटी एण्ड लाइफस्टाइल अवार्ड्स 2025’ इत्यस्मिन् समारोहे श्रेष्ठं आध्यात्मिकं पर्यटनगन्तव्यम् इति पुरस्कारं प्राप्तवान्।पुर्तगालदेशे भारतस्य राजदूतः पुनीत रॉय कुंदलः उत्तरप्रदेशस्य प्रतिनिधित्वं कृत्वा ११ अक्टूबर २०२५ तमे दिने आयोजिते समारोहे एतत् सम्मानं ग्रहणं कृतवान्।राज्यस्य पर्यटन-संस्कृतिमन्त्री जयवीरसिंहः अवदत् यत् – “एषः प्रतिष्ठितः सम्मानम् उत्तरप्रदेशस्य तस्य वैशिष्ट्यपूर्णस्य परिचयस्य वैश्विकमञ्चे अधिकं सुदृढं करोति, यस्य केन्द्रे आस्था, भक्ति, दिव्यता च इति सहस्रवर्षपरम्परा प्रतिष्ठिता अस्ति।पर्यटनमन्त्रिणा उक्तं यत् – “एषा उपलब्धिः केवलं राज्यस्य आध्यात्मिक-सांस्कृतिकसमृद्धेः प्रमाणम् एव न, अपितु विश्वपर्यटनमानचित्रे उत्तरप्रदेशस्य अग्रस्थानं अपि सुदृढं करोति।”एतेन सम्माननेन सह उत्तरप्रदेशराज्येन एषः संदेशः प्रदत्तः यत् “यत्र आस्था संस्कृत्या सह संयोगं प्राप्नोति, तत्र एव सत्यस्फूर्तेः आध्यात्मिकपर्यटनमार्गः उद्घाट्यते।
---
हिन्दुस्थान समाचार