Enter your Email Address to subscribe to our newsletters
इंदौरम्, 13 अक्टूबरमासः (हि.स.)। मध्यप्रदेशराज्यशासनस्य संस्कृति-विभागेन, खण्डवा-जिलाप्रशासनस्य सहयोगेन, प्रति-वर्षवत् अस्मिन्सम्वत्सरेऽपि विज्ञकलाकारस्य किशोरकुमारस्य पुण्यतिथेः अवसरात् अद्य सोमवासरे आरभ्य द्विदिनात्मकः राष्ट्रियः “किशोरकुमारसम्मानालंकरणसमारोहः” आयोज्यते।
आरक्षक-प्राङ्गणे खण्डवायाम् आयोजिते अस्मिन् कार्यक्रमे प्रथमदिने “ये शाम मस्तानी” इत्याख्या गीत-संगीत-संध्या भविष्यति। कार्यक्रमस्य द्वितीयदिने “अलंकरणसमारोहः” भविष्यति।
संस्कृति-संचालकः एन.पी. नामदेव इत्यनेन उक्तम्—महानः गायकः कलाकारः किशोरकुमारस्य पुण्यतिथेः अवसरे संस्कृति-विभागः परम्परानुसारम् एषः आयोजनः करोति स्म। अस्मिन्सम्वत्सरे एषः आयोजनः द्विदिनात्मकः क्रियते। प्रथमदिने, अद्य सायं सप्तवादनात्, “ये शाम मस्तानी” इत्याख्यायां गीत-संगीत-संध्यायां किशोरकुमारस्य सदाबहारगीतानां प्रस्तुतिः भविष्यति। समारोहस्य कार्यक्रमे राकेशनागर, नुपुरकौशल, अनिलशर्मा, अजीतश्रीवास्तव–इन्दौर, भीमरावअटकडे, गौरवखरे, राजाशर्मा, रोशनीपहेलवान, जितेन्द्रभांवरकर तथा तोरलबख्शी इत्येते कलाकाराः गीतप्रस्तुतिं करिष्यन्ति।
द्वितीयदिने, १४ अक्तोबरस्य सायं सप्तवादनात्, राष्ट्रियः किशोरकुमारसम्मानालंकरणः आयोज्यते। तस्मिन् सुविख्यातः गीतकारः प्रसूनजोशी इत्येषः गीतलेखनस्य कृते वर्ष–२०२४स्य राष्ट्रियकिशोरकुमारसम्मानेन अलंकरिष्यते। अलंकरणानन्तरं हेमन्तकुमारसंगीतसमूहः मुम्बैस्थः किशोरकुमारस्य गीतानां सुमधुरप्रस्तुतिं करिष्यति। उभयदिनयोः कार्यक्रमे प्रवेशः निःशुल्कः भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता