केंद्रीयगृहमन्त्री अमितशाहः जयपुरम् आगतः। विमानतले मुख्यमन्त्री भजनलाल-शर्मणा तस्य स्वागतीकृतम्।
जयपुरम्, 13 अक्टूबरमासः (हि.स.)। केंद्रीयगृह-तथा-सहकारिता-मन्त्री अमितशाहस्य जयपुर-आगमनसन्दर्भे सोमवासरे मुख्यमन्त्री भजनलाल-शर्मणा विमानतले पुष्पगुच्छं समर्प्य तस्य स्वागतं आत्मीयं च अभिनन्दनं कृतम्। शाहः नूतन-आपराधिक-नियमानां एकवर्ष-पूर्णत्व-अवसर
केंद्रीय गृह मंत्री अमित शाह का मुख्यमंत्री भजनलाल शर्मा ने जयपुर एयरपोर्ट पर किया अभिनंदन


जयपुरम्, 13 अक्टूबरमासः (हि.स.)। केंद्रीयगृह-तथा-सहकारिता-मन्त्री अमितशाहस्य जयपुर-आगमनसन्दर्भे सोमवासरे मुख्यमन्त्री भजनलाल-शर्मणा विमानतले पुष्पगुच्छं समर्प्य तस्य स्वागतं आत्मीयं च अभिनन्दनं कृतम्। शाहः नूतन-आपराधिक-नियमानां एकवर्ष-पूर्णत्व-अवसरे आयोज्यमानस्य षड्दिनीय-प्रदर्शनस्य उद्घाटनार्थं जयपुरं आगतः।

अस्मिन्नवसरे उपमुख्यमन्त्री दीयाकुमारी, उपमुख्यमन्त्री डॉ॰ प्रेमचन्दबैरवा, राज्यसभासांसदः मदनराठौडः, पूर्वविधानसदस्यः सतीशपूनिया, मुख्यसचिवः सुधांशपन्तः, आरक्षकमहानिदेशकः राजीवकुमारशर्मा च सहिताः गणमान्य-जन उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani