उत्तराखंड संस्कृत अकादमी करिष्यति विविध संस्कृत प्रतियोगितानाम् आयाेजनम्
-संस्कृत समूहगानं, नृत्यं, नाटकं, वाद-विवादः श्लोकोच्चारणं इत्येषु प्रतिभागं गृहीष्यति छात्राः -राज्यस्य द्वितीय राजभाषा संस्कृतस्य प्रचार-प्रसाराय दत्तं बलम् रुद्रप्रयागः, 13 अक्टूबरमासः (हि.स.)।उत्तराखण्ड-संस्कृत-अकादमी-हरिद्वार् नामक-संस्था ब
उत्तराखंड संस्कृत अकादमी करिष्यति विविध संस्कृत प्रतियोगितानाम् आयाेजनम्


-संस्कृत समूहगानं, नृत्यं, नाटकं, वाद-विवादः श्लोकोच्चारणं इत्येषु प्रतिभागं गृहीष्यति छात्राः

-राज्यस्य द्वितीय राजभाषा संस्कृतस्य प्रचार-प्रसाराय दत्तं बलम्

रुद्रप्रयागः, 13 अक्टूबरमासः (हि.स.)।उत्तराखण्ड-संस्कृत-अकादमी-हरिद्वार् नामक-संस्था ब्लॉक-स्तरे एकादश-द्वादश-नवम्बर-दिनाङ्कयोः संस्कृत-प्रतियोगितां आयोजयिष्यति। रुद्रप्रयाग-जनपदे जी.जी.आई.सी.-अगस्त्यमुनि, जी.आई.सी.-गुप्तकाशी तथा जी.आई.सी.-रामाश्रम-विद्यालयेषु अगस्त्यमुनि-, ऊखीमठ-, जखोली-ब्लॉकयोः प्रतियोगिता आयोजित भविष्यति।

मुख्य-शिक्षा-अधिकारी पी.के. बिष्ट् इत्यनेन उक्तं यत् अस्य वर्षस्य प्रतियोगिता-आयोजनं बृहद्-रूपेण करणीयम् इति। तस्मात् संस्कृत-भाषा-शिक्षकान् खण्ड-स्तरे खण्ड-संयोजकान् नियुक्त्वा तेषां कृते प्रतियोगिता-आयोजनस्य दायित्वं प्रदत्तम्।

एतेषां खण्ड-संयोजकानां कृते उत्तराखण्ड-संस्कृत-अकादम्या हरिद्वारे प्रशिक्षणं दत्तम्। तदनन्तरं सर्वे अपि शिक्षकाः स्वस्व-ब्लॉकेषु स्पर्धा-तैयारीं आरब्धवन्तः।

संस्कृत-शिक्षा-सहायक-निदेशकः श्रीमान् एम.आर. मैन्दुली उक्तवान् यत् अस्यां प्रतियोगितायां षष्ठ-श्रेणी-प्रारभ्य स्नातकोत्तर-स्तरपर्यन्तं सर्वे शासकीय-अशासकीय-विद्यालय-महाविद्यालयेषु संस्थागत-रूपेण अध्ययनरत-विद्यार्थिनः भागं ग्रहीतुं शक्नुवन्ति।

अस्यां प्रतियोगितायां संस्कृत-समूहगानं, नृत्यं, नाटकम्, वाद-विवादः, आशु-भाषणम्, श्लोक-उच्चारणं च कनिष्ठ-वरिष्ठ-विभागयोः सम्पूर्णं रूपेण आयोज्यते।

सर्वासु प्रतियोगितासु संचालनं संस्कृत-भाषायामेव भविष्यति। खण्ड-स्तरे प्रथम-द्वितीय-स्थानं प्राप्तवन्तः छात्राः जिलास्तरीय-प्रतियोगितायां स्व-खण्डस्य प्रतिनिधित्वं करिष्यन्ति।

अकादम्या खण्ड-जिला-स्तरे सफल-विद्यार्थिभ्यः नगद-पुरस्कारं प्रमाण-पत्रं च प्रदास्यते।

एते सन्ति खण्ड-संयोजकाः — संस्कृत-शिक्षा-सहायक-निदेशकः श्रीमान् एम.आर. मैन्दुली उक्तवान् यत् अस्य संस्कृत-प्रतियोगितायाः आयोजनार्थं गङ्गाराम-सकलानी, केशरी-प्रसाद-तिवारी, भगवती-प्रसाद-भट्ट इत्येते खण्ड-संयोजकाः नियुक्ताः। तथा शशि-प्रसाद-पुरोहितः, प्रकाश-चन्द्र-पाण्डेयश्च जिला-संयोजकः सह-संयोजकश्च नियोजितौ स्तः।

हिन्दुस्थान समाचार