Enter your Email Address to subscribe to our newsletters
भुवनेश्वरः, 13 अक्टूबरमासः (हि.स.)। ओडिशा-राज्य-नारी-आयोगस्य त्रिसदस्य-समिति अध्यक्षया शोभना-मोहन्त्या नेतृत्त्वेन पश्चिम-बङ्गराज्यस्य दुर्गापुर-नगरं प्रति प्रस्थितवती अस्ति। एषा समिति बालेश्वर-जनपदस्य एका ओडिया-एम्.बी.बी.एस्. छात्रायाः सह सम्पन्नस्य सामूहिकदुष्कर्मप्रकरणस्य अन्वेषण-प्रगति तथा पीडितायाः चिकित्सा-स्थितेः मूल्याङ्कनं करिष्यति।
जलेश्वर-नगर-निवासिनी सा पीडिता द्वितीय-वर्षा चिकित्सा-छात्रा अस्ति। गतशुक्रवासरे पश्चिम-बर्दमान-जनपदस्य एकस्य निजी-महाविद्यालयस्य समीपे एषा दुःखद-घटना अभवत्। शोभना-मोहन्त्या उक्तवती यत् समितेः प्रमुखं लक्ष्यं तदेव यत् पीडितायै सम्यक् वैद्यकीय-सेवा च मनोवैज्ञानिक-सहायता च लभ्यते इति सुनिश्चितं भवेत्।
सा अवदत्— “वयं प्रथमं दुर्गापुर-औषधालयं गमिष्यामः, यत्र पीडिताया उपचारः प्रवर्तते, तत्र तस्या अवस्थां समीक्ष्य यत् पश्चिम-बङ्ग-सर्वकारः तस्यै प्राथमिकता-आधारेण स्वास्थ्य-सेवा प्रददाति इति सुनिश्चितं करिष्यामः, यथा ओडिशासर्वकारः अपि तादृशेषु प्रकरणेषु करोति।”
नारी-आयोगस्य समितिः दुर्गापुर-आरक्षकविभागेन सह स्थानीयप्रशासकीय-अधिकारीभिः च सह बैठकां करिष्यति। मोहन्त्या उक्तवती— “वयं आरक्षकैः च जिलाधिकारिणा च सह मिलित्वा अन्वेषणस्य प्रगतिं परीक्ष्यामः, च त्वरित-न्यायालय-प्रस्तुत्यर्थं शीघ्र-क्रिया क्रियमाणा वा न इति निरीक्ष्यते।”
सा पुनरुक्तवती— “ओडिशा-नारी-आयोगः पश्चिम-बङ्ग-अधिकारीभिः सह समन्वयेन न्यायप्रक्रियायाः त्वरणं करिष्यति। वयं महानिदेशकं अपि सम्प्रेष्य चर्चा करिष्यामः, च पीडिताया पूर्ण-स्वास्थ्य-लाभः पुनर्वासः च सुनिश्चितौ भवेताम् इति दृढं प्रयत्नं करिष्यामः।”
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani