Enter your Email Address to subscribe to our newsletters
मुंबई, 13 अक्टूबरमासः (हि.स.)। महाराष्ट्र-राज्यस्य शिवसेना यू.बी.टी. दलस्य नेता संजयराऊतः सोमवासरे आकस्मिकतया अस्वस्थः अभवत्, ततः तत्क्षणमेव भाण्डुप्-स्थिते फोर्टिस्-औषधालये प्रवेशितः । सम्प्रति संजय-राऊतः स्थिरावस्थायाम् अस्ति।
संजय-राऊतः प्रतिदिनवत् अद्यापि स्व-निवासे विक्रोली-क्षेत्रे पत्रकार-सम्मेलनं संबोधितवन्तः आसन्। सम्मेलनस्य समाप्ते अनन्तरं राऊतः असहजतां अनुभूतवन्तः। ततः तत्क्षणं तान् फोर्टिस्-औषधालयं प्रति नीतवन्तः, यत्र तस्य उपचारः प्रवर्तते।
उल्लेखनीयम् यत् गतवर्षे अपि संजय-राऊतः हृदय-संबन्धिनी व्याध्या पीडितः सन् मुम्बई-स्थिते लीलावती-औषधालये भर्तीकरणं कृतः आसीत्। ततः गतमासे अपि तस्य वैद्यकीय-परीक्षणं फोर्टिस्-औषधालये एव कृतम्। समाचारलेखन-समये पर्यन्तं फोर्टिस्-औषधालयात् आधिकारिक-सूचना न प्रदत्ता।
____________
हिन्दुस्थान समाचार / Dheeraj Maithani