उत्तराखण्ड-राज्ये 'युव-आपदामित्र' योजना आरब्धा, विपदि यूनां महत्त्वपूर्णं योगदानं भविष्यति
देहरादूननगरम्, 13 अक्टूबरमासः (हि.स.) मुख्यमन्त्री पुष्करसिंहधामी उत्तराखण्ड-राज्ये राष्ट्रियविपद-व्यवस्थापन-प्राधिकरणस्य युव-आपदामित्रयोजनारब्धा। मुख्यमन्त्री अवदत् यत् सङ्कटकाले युवकाः महत्त्वपूर्णां भूमिकां निर्वहन्ति इति। मुख्यमन्त्रिणा सोमव
प्रशिक्षण लेते स्काउट्स एंड गाइड्स ।


देहरादूननगरम्, 13 अक्टूबरमासः (हि.स.) मुख्यमन्त्री पुष्करसिंहधामी उत्तराखण्ड-राज्ये राष्ट्रियविपद-व्यवस्थापन-प्राधिकरणस्य युव-आपदामित्रयोजनारब्धा। मुख्यमन्त्री अवदत् यत् सङ्कटकाले युवकाः महत्त्वपूर्णां भूमिकां निर्वहन्ति इति।

मुख्यमन्त्रिणा सोमवारे उक्तम् यत् उत्तराखण्डः एकः संवेदनशीलः पर्वतीयः राज्यः अस्ति, यत्र प्राकृतिकापदां चुनौती निरन्तरं विद्यते। तस्मिन् अवस्थायां युवानः प्रशिक्षिताः सजगाश्च भवितुम् अत्यावश्यकं भवति, यतः ते आपद्भ्यः रक्षणार्थं प्रमुखं योगदानं दातुं शक्नुवन्ति। तेन युवान् प्रति आह्वानं कृतम् — “यूयं एतत् प्रशिक्षणं केवलं कार्यक्रमरूपेण न पश्यत, अपितु राज्यस्य समाजस्य च सेवायाः अवसररूपेण मन्यध्वम्।” प्रधानमन्त्रिणं नरेन्द्रमोदीं प्रति आभारं व्यक्त्वा अवदत् यत् प्रधानमन्त्रिणः प्रेरणया देशव्यापिनि युवानः आपद्कालस्य साहाय्यसेवाभावेन सम्बध्यन्ते।मुख्यमन्त्रिणा विश्वासः व्यक्तः यत् उत्तराखण्डस्य युवानः अस्य योजनायाः माध्यमेन स्वराज्यं आपद्-व्यवस्थापनक्षेत्रे आदर्शमॉडलरूपेण स्थापयितुं योगदानं दास्यन्ति इति।

राज्य-विपद-प्रबन्धन-प्राधिकरणस्य सचिवः विनोद-सुमनः अवदत् यत् प्रधानमन्त्री-नरेन्द्रमोदीवर्यस्य दूरदर्शीविचारः विपद-सशक्तभारतस्य उत्तराखण्डस्य च संकल्पे महत्त्वपूर्णः सम्पर्कः अस्ति, यस्य माध्यमेन विपद-प्रबन्धनस्य विषये युवान् प्रशिक्षयित्वा समुदाय-आधारितं द्रुतप्रतिक्रिया-तन्त्रं सुदृढं क्रियते।

अस्य योजनायाः अन्तर्गतस्य भारत स्काउट गाइड च इत्यस्य प्रथमः प्रशिक्षण-शिबिरः भोपाल्पानी-नगरस्य प्रशिक्षणकेन्द्रे आरभत। सप्तदिवसीये आवासीयशिबिरे चत्वारिंशत् रक्षकाः, चत्वारिंशत् भ्रमकाः च मिलित्वा आहत्य 80 स्वयंसेवकाः भागं गृहीतवन्तः सन्ति। भारत स्काउट गाइड च इत्यस्य राज्यसचिवेन आर.एम. काला इत्यनेन एशिया-पैसिफिट-पुरस्कारेण पुरस्कृतेन हरीश कोठारी इत्यनेन च संयुक्तरूपेण अस्य शिबिरस्य उद्घाटनम् अभवत्।

अस्मिन् अवसरे आर.एम. कला वर्यः अवदत् यत् युव-आपदा-मित्र-योजना उत्तराखण्ड्-राज्यस्य कृते भारतसर्वकारस्य अद्वितीया उपक्रमः अस्ति इति। अस्य प्रशिक्षणस्य माध्यमेन, युवकाः आपदायाः समये सङ्घटितरूपेण, कुशलरूपेण, आत्मविश्वासयुक्तरूपेण च प्रथमप्रतिकर्तारूपेण सज्जाः भविष्यन्ति। एशिया-पेसिफिट-पुरस्कारविजेता हरीश कोठारी इत्ययम् अवदत् यत् आपदायाः समये समुदायस्य प्रथमप्रतिक्रिया सर्वाधिकं प्रभाविनी भवति तथा च यदि युवकाः प्रशिक्षिताः जागरूकाः च भवन्ति तर्हि कस्यापि आपदायाः सन्दर्भे प्राणहानिः क्षतिः च महतीं न्यूनीकर्तुं शक्यते।

हिन्दुस्थान समाचार / Dheeraj Maithani