ससमये तथा उच्चगुणवत्तया सह मार्गसुदृढीकरणाय ७९९ कोटिरूप्यकाणी स्वीकृतानि
जयपुरम्, 14 अक्टूबरमासः (हि.स.)। राज्यस्य सर्वेषां ४१ जिलानां अन्तर्गतं वृष्ट्या क्षतिग्रस्तानां ग्रामीण–मार्गाणां, राज्य–राजमार्गाणां, मुख्य–जिल्ला–मार्गाणां तथा नगरीय–मार्गेषु स्थायी–सुदृढीकरणाय १५९२ कार्याणि अनुमोदितानि सन्ति। एतेषां सम्पादनार्थ
सड़कों की मरम्मत के लिए 799 करोड़ रूपये स्वीकृत


जयपुरम्, 14 अक्टूबरमासः (हि.स.)। राज्यस्य सर्वेषां ४१ जिलानां अन्तर्गतं वृष्ट्या क्षतिग्रस्तानां ग्रामीण–मार्गाणां, राज्य–राजमार्गाणां, मुख्य–जिल्ला–मार्गाणां तथा नगरीय–मार्गेषु स्थायी–सुदृढीकरणाय १५९२ कार्याणि अनुमोदितानि सन्ति। एतेषां सम्पादनार्थं ७९८.८० कोटि रूप्यकाणां वित्तीय–सहमतिः प्रदत्ता अस्ति।

उल्लेखनीयं यत् पूर्वकाले दृष्टं यत् वर्षाकाले मार्गाणाम् अवस्था अतीव जर्जरा भवति। तस्मात् मार्गस्खलनं, गर्तानां निर्माणम्, यातायात–साधनानां स्थगनम्, जलपूर्णं, दुर्घटनाः इत्यादयः समस्याः उत्पद्यन्ते। मुख्यमन्त्री भजनलाल–शर्मणा उक्तं यत् एतेषां मार्गाणां सुदृढीकरणं ससमये एव उच्चगुणवत्तया क्रियते, येन जनसामान्याय किञ्चिदपि असुविधा न भवेत् । एतन्निमित्तं वित्तीयधनराशिद्वारा मार्गाणां सुदृढिकरणं तथा करिष्यते येन भविष्ये मार्गाः शीघ्रं जर्जराः न भविष्यन्ति, मार्गेषु जलपूरणं न भविष्यति अपि च मार्गदुर्घटनाः न्यूनाः भविष्यन्ति।

---------------

हिन्दुस्थान समाचार