Enter your Email Address to subscribe to our newsletters
काबुलम्, 14 अक्टूबरमासः (हि.स.)।अफगानराज्येन पाकिस्तानस्य रक्षामन्त्रिणः ख्वाजा मोहम्मद आसिफ नामकस्य, अन्तरसेवासूचनासंस्थानस्य (आई.एस्.आई.) प्रमुखस्य लेफ्टिनेंट् जनरल् असीम् मलिक नामकस्य, अन्ययोः द्वयोः जनरलयोश्च वीजा-अनुमोदनानि निरस्तानि कृतानि। गतत्रिदिनेषु इस्लामाबादनगरात् त्रयः पृथगनुरोधाः प्रेषिताः आसन्, किन्तु सर्वे अपि काबुलराजधानीद्वारा अस्वीकृताः।
“द बलोचिस्तान पोस्ट” नामकस्य पत्रिकायाः (पश्तोभाषायाम् प्रकाशितस्य) सोमवासरस्य प्रतिवेदने उक्तं यत् अफगानविदेशमन्त्रालयेन अथवा तालिबानसरकारेण अस्य विषयस्य विषये कापि औपचारिकप्रतिक्रिया न दत्ता। तथापि विश्वसनीयस्रोतैः वीजा-अनुमोदननिरसनस्य पुष्टि कृता।
अधुना कतिपयानि मासानि यावत् पाकिस्तान-अफगानयोः मध्ये तनावः वर्धमानः अस्ति। पाकिस्तानराज्येन अफगानभूमिं प्रति आरोपः कृतः यत् तहरीक-ए-तालिबान पाकिस्तान (टी.टी.पी.) इत्यस्य दुष्टसमूहस्य प्रयोगाय अफगानभूमिः उपयुज्यते इति। किन्तु तालिबानसरकारा एतेषां आरोपाणां खण्डनं कृतवती।
अद्यतनदिनेषु वार्तासु प्रकाशितम् यत् पाकिस्तानराज्येन अफगानस्थानस्य राजधानी काबुलसहित विभिन्नेषु प्रदेशेषु आकाशीयप्रहाराः कृताः। तेषां प्रत्युत्तररूपेण अफगानसैन्येन सीमाप्रदेशेषु पाकिस्तानीबलान् प्रति प्रतिकारः कृतः, यस्मिन् पाकिस्तानीसेनायाः महती हानि अभवत्। पश्चात् अफगानसैन्येन युद्धविरामः घोषितः।
भारते स्थितः अफगानविदेशमन्त्री अपि उक्तवान् यत् सऊदी-अरब, कतार्, संयुक्त-अरब-अमीरात् च एषां त्रयाणां देशानां अनुरोधेन युद्धविरामनिर्णयः गृहीतः।
पाकिस्तानस्य रक्षामन्त्री ख्वाजा आसिफः पूर्वं अपि अफगाननेतृत्वेन सह भेंटं कृतवान् आसीत्। अद्यतनघटनाक्रमस्य अनन्तरं सः तालिबानसरकारस्य वरिष्ठप्रतिनिधिभिः सह सुरक्षासम्बद्धानां विषयाणां विषये चर्चां कर्तुम् इच्छन् आसीत्। किन्तु अफगानसर्वकारस्य अस्वीकारेण उभयोः राष्ट्रयोः मध्ये कूटनीतिकतनावः स्पष्टरूपेण प्रकटः अभवत्।
राजनीतिपर्यवेक्षकेभ्यः अनुसारं, उच्चस्तरीय-पाकिस्तानी-प्रतिनिधिमण्डलस्य वीजा-अनुमोदनं निरस्तं कर्तुम् अत्यल्पदृष्टं निर्णयः अस्ति। एषः निर्णयः इत्यस्य सूचकः अस्ति यत् तालिबानसरकारा अधुना इस्लामाबादस्य दाबस्य अधीनत्वं स्वीकर्तुं न इच्छति।
---------------
हिन्दुस्थान समाचार