मङ्गोलियाय 1.7 अर्बुदडॉलर-मूल्यस्य ऋणसहाय्यं दास्यति भारतम्
नवदेहली, 14 अक्टुबरमासः (हि.स.)। भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना मङ्गोलियादेशस्य राष्ट्रपतिना खुरेलसुख- उखनाख्येन मंगलवासरे हैदराबादे गृहे द्विपक्षीयवार्ता सम्पन्ना। भारतदेशः मङ्गोलियायै तैलशोधनालयपरियोजनार्थं १1.7 अरबडॉलर-मूल्यस्य ऋणं दास्य
प्रधानमंत्री मोदी और मंगोलिया के राष्ट्रपति हैदराबाद हाउस में


नवदेहली, 14 अक्टुबरमासः (हि.स.)। भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना मङ्गोलियादेशस्य राष्ट्रपतिना खुरेलसुख- उखनाख्येन मंगलवासरे हैदराबादे गृहे द्विपक्षीयवार्ता सम्पन्ना। भारतदेशः मङ्गोलियायै तैलशोधनालयपरियोजनार्थं १1.7 अरबडॉलर-मूल्यस्य ऋणं दास्यति। एषा भारतस्य विश्वे सर्वातिविस्तीर्णा विकाससहकार्यपरियोजना अस्ति।

उभाभ्यां नेतृभ्यां वार्तानन्तरं संयुक्तं पत्रकारपरिवेदनं प्रदत्तम्। प्रधानमन्त्रिणा नरेन्द्रमोदिनाऽभिहितं यत् भारतः अद्य मङ्गोलियानागरिकेभ्यः निःशुल्कम् ई-वीजा-सुविधां दास्यति। तदनन्तरं प्रतिवर्षं मङ्गोलियायाः युवासांस्कृतिक-दूताः भारतयात्रां कर्तुं प्रायोजिताः भविष्यन्ति।

प्रधानमन्त्री स्ववक्तव्ये सांस्कृतिकैक्यम् आध्यात्मिकबन्धुत्वं च प्रकाशयामास। सः अवदत्— यतः सद्यःप्राचीनकालात् उभौ देशौ बौद्धधर्मसूत्रेण संयोजितौ स्तः, अत एव वयम् आध्यात्मिकबन्धवः इति कथ्यावहे। सः अपि उक्तवान् यत् नालन्दाविश्वविद्यालयः मङ्गोलियायां बौद्धधर्मस्य प्रसारे महत्त्वपूर्णं योगदानं कृतवान् अस्ति। उभौ नेतारौ निर्णयं कृतवन्तौ यत् नालन्दा–‘गन्दनमठः’ इत्येतयोः परस्परं सम्बद्धता स्थापनीया।

प्रधानमन्त्री अवदत्— “वयं गन्दनमठे संस्कृताध्यापकं प्रेषयिष्यामः, येन तत्र बौद्धग्रन्थानां गहनाध्ययनं स्यात्, प्राचीनज्ञानपरम्परा च प्रवर्धयेत्।” अस्माकं रक्षणसुरक्षासहकार्यम् अपि निरन्तरं सुदृढं भवति।

प्रधानमन्त्री हर्षं व्यक्तवान् यत् “अग्रिमवर्षे भगवान्बुद्धस्य द्वौ महान् शिष्यौ— सारिपुत्रः मौद्गल्यायनश्च— एतयोः पवित्रावशेषौ भारतात् मङ्गोलियां प्रेष्येते।”

मङ्गोलियादेशस्य राष्ट्रपतिः उखनः अद्य प्रातःकाले राजघाटे महात्मागान्धेः प्रति श्रद्धाञ्जलिम् अर्पितवान्। ततः परं प्रधानमन्त्रिणा मोदिना राष्ट्रपतिना उखनाख्येन च राष्ट्रपतेः मातुः सम्मानार्थं हैदराबादगृहे संयुक्ततया एकं वृक्षं रोपितम्। एषः विषयः प्रधानमन्त्रिणः “एकः वृक्षः मातुः नाम्ना” इति अभियानं राष्ट्रपतेः “एकमर्बवृक्ष-अभियानं” च संयोजयति। एषा च क्रिया आगामिन्यः पीढ्यः कृते पृथिव्याः संरक्षणाय उभयोः समानप्रतिज्ञां सूचयति।

हिन्दुस्थान समाचार / अंशु गुप्ता