Enter your Email Address to subscribe to our newsletters
--बुंदेलखंडे न्यूनजलेन कृषेःपरियोजनायै दत्तो विस्तारः
झांसी, 14 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य योगिसर्वकारो बुन्देलखण्डप्रदेशस्य कृषकान् कृष्यां अति-आधुनिकतन्त्रज्ञानस्य अंगीकरणाय प्रेरयति। अस्य श्रृंखलायां उत्तरप्रदेशसरकारस्य भूगर्भजलविभागस्य साहाय्येन झाँसीजनपदस्य गङ्गावलीग्रामपञ्चायति शीघ्रमेव प्रायोगिकरूपेण इजरायलदेशीयतन्त्रज्ञानस्य माध्यमेन कृषेः आरम्भः भविष्यति।
एतस्मिन्नर्थे भारतसर्वकारः इजरायलसरकारेण सह एकं समझौतापत्रं (एम्.ओ.यू.) कृतवती अस्ति। इजरायलदेशीयविशेषज्ञानां टोली अस्य विषयस्य कार्ययोजनां निर्माय स्थानीयप्रशासनाय समर्पितवती अस्ति। आगामिमासेषु अत्र इजरायलतन्त्रज्ञानाधारितकृषिः आरप्स्यते।
गङ्गावलीग्रामे पायलट्-प्रोजेक्ट्-रूपेण दशहेक्टेयरपर्यन्तं भूमौ इजरायलतन्त्रज्ञानस्य उपयोगेन कृषिः करिष्यते। एषा भूमि: त्रिंशत्-कृषकाणां कृषिभूमिभ्यः ग्रहिता भविष्यति। एषां भूमिषु कृषकाः स्वयमेव कृषिं करिष्यन्ति, किन्तु सरकारा तस्य निरीक्षणं करिष्यति, आवश्यकनिर्देशांश्च दास्यति।
अस्यां परियोजनायां मुख्यफोकसः ड्रिप्-इरिगेशन् (बिन्दु-सिंचनम्) तथा माइक्रो-इरिगेशन् (सूक्ष्मसिंचनम्) तन्त्रयोः अपनने भविष्यति। अस्य तन्त्रज्ञानस्य साधनानि आवश्यकानि कृषकानां कृते सरकारीयोजनानुसारं प्रदातुं प्रयासः भविष्यति। आवश्यकता-सामये इजरायलदेशीयविशेषज्ञानामपि सहायता उपलप्स्यते।
भूगर्भजलविभागस्य झाँसीनोडलाधिकारी मनीषकुमारकनौजिय इत्यनेन उक्तं यत् ग्रामस्य कृषकैः सह सम्मतिः संगृह्यते, दस्तावेजानां परीक्षणं च क्रियते। अनुमोदनप्राप्तेः अनन्तरं अत्र पायलट्-प्रोजेक्ट्-रूपेण इजरायलतन्त्रज्ञानाधारितकृषिः आरप्स्यते। अनुमान्यते यत् कतिपयान् मासान्तराले अनुमोदनप्रक्रिया पूर्णा भविष्यति तथा अत्र इजरायलतन्त्रज्ञानकृषेः शुभारम्भः भविष्यति।
आगामिकाले अस्य तन्त्रज्ञानस्य विस्तारः सम्पूर्णे बुन्देलखण्डप्रदेशे अपि करिष्यते इति अभिप्रायः।
---------------
हिन्दुस्थान समाचार