जेन जी आक्रमणात् प्रप्रथमम् अद्य द्रष्टुं शक्यते पूर्व प्रधानमंत्री शेरबहादुर देउवा
काठमांडूः, 14 अक्टूबरमासः (हि.स.)।नेपालदेशे जातस्य जेन-जी-विद्रोहस्य समये घोररूपेण आहतः नेपाली-काँग्रेस्-दलस्य अध्यक्षः पूर्वप्रधानमन्त्री च श्री-शेरबहादुर-देउवः अद्य पञ्चत्रिंशद्दिनानन्तरं प्रथमवारं सार्वजनिककार्यक्रमे सहभागी भविष्यति। नेपाली-काँ
शेर बहादुर देउवा कांग्रेस पार्टी अध्यक्ष


काठमांडूः, 14 अक्टूबरमासः (हि.स.)।नेपालदेशे जातस्य जेन-जी-विद्रोहस्य समये घोररूपेण आहतः नेपाली-काँग्रेस्-दलस्य अध्यक्षः पूर्वप्रधानमन्त्री च श्री-शेरबहादुर-देउवः अद्य पञ्चत्रिंशद्दिनानन्तरं प्रथमवारं सार्वजनिककार्यक्रमे सहभागी भविष्यति।

नेपाली-काँग्रेस-दलस्य केन्द्रीयकार्यसमित्याः बैठकः अद्य मध्यान्हे एकवादने सानेपास्थिते दलस्य केन्द्रीयकार्यालये भविष्यति। अस्मिन् सभासमये अध्यक्षः शेरबहादुर-देउवः सहभागी भविष्यतीति अपेक्षा अस्ति। दलस्य कार्यवाहकाध्यक्षः पूर्णबहादुर-खड्कः अवदत् यत् अध्यक्षेन देउवेन अद्यतने केन्द्रीयसमितिसभायां उपस्थितेः अनुमतिः दत्ता अस्ति।

जेन-जी-विद्रोहस्य द्वितीयदिने, नवमसेप्टेम्बरमासे, तस्य निवासे प्रदर्शकाः आक्रमणं कृतवन्तः आसन्। अस्मिन् आक्रमणे शेरबहादुर-देउवः तस्य पत्न्या आरजू-राणा-देउवया सह आहतौ अभवताम्। ततः अनन्तरं हेलिकॉप्टरद्वारा उभौ रक्षितौ सैनिक-अस्पतले नीतौ।

दलस्य केन्द्रीयकार्यालयस्य मुख्यसचिवः कृष्णप्रसादः पौडेलः अवदत् यत् अद्यतनी केन्द्रीयसमितिसभा जेन-जी-आन्दोलनस्य अनन्तरं परिवर्तितराजनीतिकपरिस्थितेः विषये चर्चां करिष्यति तथा दलस्य भाविसंरचनायाः रणनीतिं निर्धास्यति।

नेपाली-काँग्रेसदलस्य वरिष्ठनेतारः गतदिवसाभ्यः निरन्तरं विचारविमर्शेषु संलग्नाः सन्ति, देउवं अध्यक्षपदात् अपसारितुं तस्योपरि दबावं च निर्मातुम् इच्छन्ति। तस्यैव उभौ महामन्त्रिणौ—गगनः थापा, विश्वप्रकाशः शर्माच—देउवस्य पदत्यागं नूतननेतृत्वस्य चयनं च साधयितुं हस्ताक्षर-अभियानं प्रारब्धवन्तौ।

---------------

हिन्दुस्थान समाचार