राजस्थाने शैत्यस्य आरंभः, दिने वर्धितम् औष्ण्यं रात्रौ शैत्यम्
जयपुरम्, 14 अक्टूबरमासः (हि.स.)।राजस्थानराज्ये शैत्यऋतुः आगमनं कृतवती। प्रदेशस्य तापमानस्य उत्थान-पतनयोः क्रमः आरब्धः अस्ति। एकस्मिन् पक्षे दिवसेषु सूर्यस्य तपनतापः वृद्धिं प्राप्नोति, अन्यस्मिन् पक्षे रात्रौ तापमानं शनैः अवरोहति। सीकरनगरस्थले सोमव
मौसम विभाग


जयपुरम्, 14 अक्टूबरमासः (हि.स.)।राजस्थानराज्ये शैत्यऋतुः आगमनं कृतवती। प्रदेशस्य तापमानस्य उत्थान-पतनयोः क्रमः आरब्धः अस्ति। एकस्मिन् पक्षे दिवसेषु सूर्यस्य तपनतापः वृद्धिं प्राप्नोति, अन्यस्मिन् पक्षे रात्रौ तापमानं शनैः अवरोहति। सीकरनगरस्थले सोमवासररात्रौ पारा पञ्चदश डिग्री-सेल्सियस्-तलात् अपि अवतीर्णः, येन शेखावाटीप्रदेशे मन्दशीतलता अनुभवितुं प्रारब्धा।

वातावरणविभागस्य अनुसारं आगामिचत्वारि-पञ्चदिनानि राज्ये वातावरणं शुष्कं भविष्यति, तापमानस्य च केवलं लघु-परिवर्तनस्य सम्भावना अस्ति। गतचतुर्विंशतिघण्टाभ्यन्तरे राज्यस्य अधिकांशभागेषु आकाशः निर्मलः आसीत्, सूर्यप्रकाशः च प्रखरः आभात्।

दिवसस्य तापमाने लघुवृद्धिः अभिलिखिता। बाडमेर, जोधपुर, जैसलमेर, अजमेर, जयपुर-प्रभृतिषु नगरेषु अधिकतमं तापमानं एकतः डिग्रीद्वयपर्यन्तं वर्धितम्। विभागस्य आँकडानुसारं बाडमेरनगरे तापमानं ३७.३ डिग्री-सेल्सियस् आसीत्, यः सर्वाधिकः। तदनन्तरं जैसलमेरमध्ये ३६, बीकानेरे ३५, श्रीगङ्गानगरे ३५.७, चूरौ ३४.२, नागौरे ३४.३, जोधपुरे ३४.५, पिलानीस्थले ३३.९, चित्तौड़गढे ३३.६, अल्वरे ३३.२, हनुमानगढे ३३.४, जालोरे ३३.५, अजमेरे ३२, कोटे ३२.२, भीलवाडायां ३१.९, सीकरे ३१.५ तथा जयपुरे ३०.४ डिग्री-सेल्सियस् मितम्।

वातावरणविशेषज्ञाः अवदन् यत् उत्तरभारततः आगच्छन्त्यः शीतवाताः इदानीं न्यूनं प्रभावं वहन्ति, येन दिवसेषु शीतलता अल्पा जाता। तथापि प्रातःकाले सायंकाले च मन्दशीतलवाताः प्रवहन्ति, यस्य फलस्वरूपं रात्रौ तापमानस्य अवरोहः दृष्टः।

विशेषज्ञैः अपि उक्तं यत् इदानीं नवस्य पश्चिमविक्षोभस्य सक्रियता नास्ति, अतः राज्ये आगामिदिनानि स्वच्छं शुष्कं च वातावरणं भविष्यति।

---------------

हिन्दुस्थान समाचार