Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 15 अक्टूबरमासः (हि.स.)।बिहारविधानसभानिर्वाचनाय भारतीयजनतापक्षेना बुधवासरे द्वितीया उमेदवारसूची प्रकाशिताभूत्, यत्र द्वादश उमेदवाराः निर्दिष्टाः सन्ति। तत्र प्रसिद्धा गायिका मैथिली ठाकुरापि अलीनगर-निर्वाचनमण्डलात् उमेदवारत्वेन नियुक्ता अस्ति। भाजपा-मुख्यालयतः महासचिवेन अरुणसिंहेन प्रकाशितायां विज्ञप्तौ उक्तं यत्—अस्यां द्वितीयायां सूच्यां द्वे नार्यौ अपि टिकटं प्राप्ते, यत्र मैथिली ठाकुर च छपरा-क्षेत्रात् छोटी कुमारी च स्तः।
बक्सरात् पूर्वम् आईपीएस अधिकारी आनन्दमिश्राय टिकटं दत्तम्। बाढ्-क्षेत्रात् डॉ॰ सियारामसिंहः, गोपालगञ्जात् सुभाषसिंहः अपि निर्वाचनार्थं प्रविष्टाः।
उल्लेखनीयं यत्—एकशतमेकस्य स्थानस्य निर्वाचनाय प्रतियोगिता कुर्वती भाजपा अद्यतनं चतुरशीत्यधिकान् (८३) उमेदवारान् घोषयामास।
एते क्षेत्रतः उमेदवाराः नियुक्ताः —
अलीनगरात् — मैथिली ठाकुरा
हायाघाटात् — रामचन्द्रप्रसादः
मुजफ्फरपुरात् — रञ्जनकुमारः
गोपालगञ्जात् — सुभाषसिंहः
बनियापुरात् — केदानाथसिंहः
छपरात् — छोटी कुमारी
सोनपुरात् — विनायकुमारसिंहः
रोसडात् — बीरेन्द्रकुमारः
बाढात् — डॉ॰ सियारामसिंहः
अगिआंवात् (अजा) — महेशपास्वानः
शाहपुरात् — राकेशोजाः
बक्सरात् — आनन्दमिश्रः।
---------------
हिन्दुस्थान समाचार