रायपुरम् - मुख्यमन्त्री विष्णुदेवसायः अद्य अस्ति राजनान्दग्रामजनपदस्य यात्रायाम्
रायपुरम्, १५ अक्टूबरमासः (हि.स.)। छत्तीसगढ़राज्यस्य मुख्यमन्त्री विष्णुदेवसायः अद्य (बुधवासरे) राजनान्दग्रामजनपदे आगच्छति। सः अत्र छत्तीसगढ़विधानसभाध्यक्षस्य डॉ॰ रमनसिंहस्य जन्मदिनसमारोहे भागं ग्रहीष्यति। मुख्यमन्त्री कार्यालयात् प्राप्तसूचनानुसा
मुख्यमंत्री विष्णुदेव साय


रायपुरम्, १५ अक्टूबरमासः (हि.स.)।

छत्तीसगढ़राज्यस्य मुख्यमन्त्री विष्णुदेवसायः अद्य (बुधवासरे) राजनान्दग्रामजनपदे आगच्छति। सः अत्र छत्तीसगढ़विधानसभाध्यक्षस्य डॉ॰ रमनसिंहस्य जन्मदिनसमारोहे भागं ग्रहीष्यति।

मुख्यमन्त्री कार्यालयात् प्राप्तसूचनानुसारं सः सायं सार्धपञ्चवादने (५:३०) रायपुरात् राजनान्दग्रामं प्रयास्यति। ततः परं सः रात्रौ अष्टवादने (८:००) ‘युवा वेल्फेयर फाउण्डेशन’ इति संस्थया आयोजिते सांस्कृतिककार्यक्रमे उपस्थितः भविष्यति, यस्मिन् प्रसिद्धगायकः कैलाशखेरः स्वीयगायनप्रस्तुतिं करिष्यति।

-

हिन्दुस्थान समाचार