मुख्यमन्त्री डॉ. यादवः अद्य ओरछायां श्रीरामराजा–लोकस्य भूमिपूजनं करिष्यन्ति, सिंगरौली–क्षेत्रे स्थानीय–कार्यक्रमे भविष्यन्ति सहभागी
भोपालः, १५ अक्टूबरमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमंत्री डॉ. मोहन–यादवः अद्य (बुधवासरे) ओरछा–नगरं गमिष्यन्ति। तत्र ते श्रीरामराजा–लोकस्य भूमिपूजनं करिष्यन्ति तथा ३३२ कोटि रूप्यकाणां विकास–कार्याणां सौगातं दास्यन्ति। ततः परं सिंगरौली–नगरं अपि गत्वा
मुख्यमंत्री डॉ. यादव


भोपालः, १५ अक्टूबरमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमंत्री डॉ. मोहन–यादवः अद्य (बुधवासरे) ओरछा–नगरं गमिष्यन्ति। तत्र ते श्रीरामराजा–लोकस्य भूमिपूजनं करिष्यन्ति तथा ३३२ कोटि रूप्यकाणां विकास–कार्याणां सौगातं दास्यन्ति। ततः परं सिंगरौली–नगरं अपि गत्वा स्थानीय–कार्यक्रमे भागं ग्रहीष्यन्ति।

नियत–कार्यक्रमानुसारं मुख्यमंत्री डॉ. यादवः अपराह्णे द्वादशवादनपञ्चाशद् मिनिटे भोपालात् प्रस्थित्य ओरछायां आगमिष्यन्ति। तत्र श्रीरामराजा–लोकस्य द्वितीय–चरणस्य निर्माणस्य आधारशिलां स्थापयिष्यन्ति।

ते २५७ कोटि ९५ लक्ष रूप्यकाणां कार्याणां भूमिपूजनं च तथा ७४ कोटि ९० लक्ष रूप्यकाणां कार्याणां लोकार्पणं च करिष्यन्ति। एवं ३३२ कोटि रूप्यकाणां विकास–योजनानां शुभारम्भं करिष्यन्ति।

साथमेव विविध–कल्याण–योजनानां हितग्राहिभ्यः लाभ–वितरणं करिष्यन्ति। ततः जुझारसिंह–महलस्य परिभ्रमणं कृत्वा श्रीरामराजा–लोक–फेस–१ इत्यस्य निर्माणाधीन–कार्येषु अवलोकनं करिष्यन्ति।

मुख्य–कार्यक्रम–स्थले विभिन्न–विभागैः विकास–प्रदर्शनं (एक्सिबिशनं) स्थाप्यते। मुख्यमंत्री श्रीरामराजा–वृद्धाश्रमे भोजनं करिष्यन्ति। ततः सायं ४:४५ वादने देवसरम् (जिला–सिंगरौली) गत्वा स्थानीय–कार्यक्रमे सहभागी भविष्यन्ति।

सायं ६:४५ वादने भोपालं प्रत्यागमिष्यन्ति तथा रात्रौ ८ वादने अरेरा–कॉलोनीस्थे स्थानीय–कार्यक्रमे भागं ग्रहीष्यन्ति।

हिन्दुस्थान समाचार