जैसलमेरबसअग्रिकांडः - शवो जोधपुरे आनीतः, 9 एमजीएच अथ च 10 एम्सशवगृहे स्थापिताः
जोधपुरम्, 15 अक्टूबरमासः (हि.स.)। जोधपुर-जैसलमेरमार्गस्य थईयात् ग्रामसंनिधौ मंगलवासरे मध्याह्ने जातायां निजीबसदाहदुर्घटनायां उन्नविंशतिः जनाः प्राणान् त्यक्तवन्तः। एतेषां शवानि अधुना जोधपुरनगरं नीतानि, यत्र तेषां डी.एन.ए. परीक्षणं कृत्य अनन्तरं बन्
jodhpur


जोधपुरम्, 15 अक्टूबरमासः (हि.स.)। जोधपुर-जैसलमेरमार्गस्य थईयात् ग्रामसंनिधौ मंगलवासरे मध्याह्ने जातायां निजीबसदाहदुर्घटनायां उन्नविंशतिः जनाः प्राणान् त्यक्तवन्तः। एतेषां शवानि अधुना जोधपुरनगरं नीतानि, यत्र तेषां डी.एन.ए. परीक्षणं कृत्य अनन्तरं बन्धुभ्यः दास्य ते।एम्.जी. चिकित्सालये नव शवानि, एम्स्‌ चिकित्सालये दश शवानि स्थापिताानि सन्ति। एकः शवः पूर्वमेव जोधपुरे आसीत्। पञ्च जना वेंटिलेटरयन्त्रे स्थापिता:, अन्ये अष्ट जना अत्यन्तगम्भीरावस्थायां सन्ति।एषा दुर्घटना तदा जाता यदा अपराह्णे साढ़े त्रयाणि वादनानि जातानि, यदा जैसलमेरतः जोधपुरं गच्छन्त्याः नव्यायाः बस्याः वातानुकूलयन्त्रे शॉर्टसर्किट् जातः। तस्मात् महाग्निः उत्पन्नः, यस्मिन् विंशतिः जनाः दग्धाः मृताः, पञ्चदश जना विविधरूपेण दग्धा:, आहताश्च।

बसः नूतनरूपेण अस्यै मासे एव पंजीकृता आसीत्। रातौ राज्यस्य मुख्यमन्त्री भजनलालशर्मा जैसलमेरं तथा जोधपुरं गत्वा चिकित्सालययोः आहतान् दृष्टवन्तः। चिकित्सामन्त्री गजेन्द्रसिंहखींवसरः अपि घटनास्थलं निरीक्ष्य उक्तवान्— पृष्ठतः विस्फोटनध्वनिः श्रुतः, सम्भवतः वातानुकूलकस्य कम्प्रेशरः विस्फुटितः, यतः गैसस्य डीजलस्य च संयोगेन महाग्निः अभवत्। केवलं एकं द्वारं आसीत्, अतः जनाः निर्गन्तुं न शक्ताः। अग्रभागस्थाः एव बहिरागच्छन्।

सेनायाः साहाय्येन येषां देहाः अपि अवशिष्टाः, ते बहिः आनिता:। ये पूर्णरूपेण भस्मीकृताः, तेषां परिचयः अपि न ज्ञातुं शक्यते।सर्वब्राह्मणसमाजस्य अध्यक्षः पण्डितः एस्‌.के. जोशी महोदयः मुख्यमन्त्रिणं प्रति निवेदनं कृतवान्— “मृतकानां बन्धुभ्यः प्रत्येकं पञ्चाशत् लक्षरूप्यकाणां आर्थिकसहाय्यं दातव्यम्, घातितानां दशलक्षरूप्यकसहाय्यं च।”

------------

हिन्दुस्थान समाचार