Enter your Email Address to subscribe to our newsletters
गांधीनगरम्, 15 अक्टूबरमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसंघस्य सरसंघचालकः डॉ॰ मोहनभागवतः बुधवासरे गांधीनगरस्य कोबा प्रदेशस्थिते प्रेक्षा–विश्वभारती–ध्यानकेन्द्रे आचार्यमहाश्रमणेन सह साकं मिलितवन्तः। अस्मिन्नेव अवसरे आयोजिते कार्यक्रमे सः भाषमाणः अवदत्— “अहं प्रतिवर्षं स्वस्य शक्तिं पुनः सञ्चारयितुम् अत्र आगच्छामि।”
डॉ॰ भागवतः अवदत्— “व्यक्तिगतचरित्रस्य च राष्ट्रीयचरित्रस्य च मूलं नैतिकता अस्ति, नैतिकताया मूलं च आध्यात्मिकता एव। आध्यात्मिकतां विना नैतिकतायाः कश्चन अर्थः नास्ति। अतः एव अहं तेषु स्थलेषु गच्छामि, यत्रतः मम कर्मणः कृते आवश्यकः ऊर्जा-सञ्चारः लभ्यते।”
आचार्यमहाश्रमणस्य अहिंसाशिक्षाणां उल्लेखं कृत्वा मोहनभागवतः अवदत्— “यदि एषा दृष्टिः भवेत्— ‘सर्वेषु मयि अहं सर्वेषु च मम अस्ति,’ तर्हि सामाजिकहिंसा न भविष्यति।”
सः अपि उक्तवान्— “अधुना संघस्य शततमं वर्षं सम्पूर्णं जातम्। अस्माकं कार्यकर्तारः विचारितवन्तः यत् वयं समाजे तादृशं कार्यक्रमं स्थापयेम, येन सर्वेषां मनसि सद्भावना उत्पद्येत, यस्य आधारतः नैतिकता निर्मीयेत। अतः शताब्दिवर्षे कोऽपि विशालः उत्सवः न करिष्यते, यतः यदि वयं राष्ट्रसेवायां शतवर्षपर्यन्तं कार्यं कृतवन्तः, तर्हि तत् अस्माकं कर्तव्यम् आसीत्, न तु उत्सवस्य विषयः।”
सरसंघचालकः अवदत्— “वयं ‘पञ्चपरिवर्तनम्’ इति कार्यक्रमं चिन्तितवन्तः, यस्मिन् पञ्च प्रकाराः विषयाः सन्ति— (१) पारिवारिकशिक्षा, (२) सामाजिकसमरसता, (३) पर्यावरणसंरक्षणम्, (४) नागरिककर्तव्यम्, (५) आत्मनिर्भरजीवनम् (स्वदेशी)। स्वयंसेवकाः एतेषां सर्वेषां विषयाणां पालनं स्वव्यवहारे आरब्धवन्तः। शताब्दिवर्षे ते समाजं प्रति गत्वा एतान् विषयान् प्रकाशयिष्यन्ति, समाजं ऐक्यभावेन धारयित्वा अस्यां दिक्षु गच्छतां जनानां संख्या वर्धयितुं प्रयत्नं करिष्यन्ति।”
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता