Enter your Email Address to subscribe to our newsletters
चित्तौड़गढम्, 15 अक्टूबरमासः (हि.स.)। केन्द्रीयवित्तमन्त्रालयेन अफीमनियामके अस्मिन् वर्षे अनेके परिवर्तनाः कृता: सन्ति। अफीमबीजनात् आरभ्य तौलनपर्यन्तं कार्यं पारदर्शकं कर्तुं प्रयासः क्रियते। तस्याः प्रक्रियायाः अन्तर्गते न्यूनातिन्यूनम् अष्टमकक्ष्या उत्तीर्णः शिक्षितः लम्बरदारः (ग्राममुख्यः) नियुक्तः क्रियते। पूर्वं तु वृद्धानां स्त्रीणामपि नियुक्तिः भवति स्म। केवलं चित्तौडगढजनपदे सप्तशताधिकग्रामेषु च समग्रराजस्थानप्रदेशे द्विसहस्राधिकग्रामेषु मुख्यानां नियुक्तिः क्रियते।
केन्द्रीयवित्तमन्त्रालयेन गतमास एव वर्षे २०२५–२६ मध्ये अफीमफसलस्य बीजनं प्रति नीतिः उद्घोषिता आसीत्। तस्याः नीत्याः अन्तर्गतं चित्तौडगढमुख्यालयस्थितं जनपद-अफीम-अधिकारीकार्यालये बन्दोबस्तकार्यं प्रवर्तमानम् अस्ति। अस्मिन् वर्षे नीत्यां बहूनि परिवर्तनानि कृतानि। तत्र प्रतिग्रामं मुख्यानियुक्त्यर्थं अपि निर्देशाः दत्ताः। विभागः प्रतिवर्षं प्रतिग्रामं मुख्यानं नियोजयति। पूर्वं प्रभावशालिनां व्यक्तीनां नियुक्तिः भवति स्म, अपि च कतिपयेषां वृद्धानां स्त्रीणामपि नियुक्तिः कृता आसीत्। अत एव विभागाय कृषकान् प्रति आदेशान् प्रेषयितुं कठिनता जाता आसीत्। अतः वित्तमन्त्रालयेन अधुना शिक्षितव्यक्तिं एव मुख्यरूपेण नियुक्तुं आदेशः प्रदत्तः।
मुख्यस्य उपयोगिता —
राजस्थानराज्ये चित्तौडगढजनपदः अफीमबहुलक्षेत्रं अस्ति, अफीमकर्षणस्य प्रमुखकेन्द्रं च। अस्मिन् जनपदे सप्तशताधिकग्रामेषु अफीमकर्षणं कर्तव्यम् अस्ति। तदतिरिक्तं भीलवाडा, प्रतापगढम्, उदयपुरम्, कोटा, झालावाड इत्यादिजनपदेषु अपि अफीमकर्षणं भवति। अतः द्विसहस्राधिकग्रामेषु सहस्रशः कृषकाः अफीमकर्षणकार्यं मुख्यानाम् माध्यमेन करिष्यन्ति। प्रतिग्रामं नियुक्तः अफीममुख्यः कृषकानां नार्कोटिक्सविभागस्य च मध्ये शृङ्खला भवति। सः अफीमस्य अनुग्यापत्रम् कृषकेभ्यः प्रापयति, विभागस्य निर्देशान् अपि प्रेषयति। नियुक्तमुख्यः अफीमकृषेः निरीक्षणं व्यवस्था च करोति, विभागाय ग्रामस्य प्रतिवेदनं ददाति, मापनकार्ये च कच्चातौलनकार्यम् अपि सहायकं भवति। अफीमविक्रयसमये कृषकान् विभागकार्यालयं प्रति आनेतुं दायित्वम् अपि तस्य भवति। तस्मात् नार्कोटिक्सविभागेन तस्मै पृथक् पारिश्रमिकं दत्तं भवति।
शिक्षितमुख्यानां दुर्लभता —
नार्कोटिक्सविभागाय अनेकग्रामेषु शिक्षितमुख्याः, ये न्यूनातिन्यूनम् अष्टमकक्ष्या उत्तीर्णाः स्युः, न लभ्यन्ते। अतः विभागः केवलं हस्ताक्षरकर्तारं कृषकम् अपि बलात् मुख्यं करोति, यः शारीरिकतया समर्थः स्यात्। मुख्यरूपेण नियुक्तः कृषकः ग्रामात् बहिः नियमितरोजगारं न करोतु।विभागीयकर्मचारिभिः सह कृषकानां अफीमक्षेत्राणां परिभ्रमणाय समर्थः भवेत्। द्विवर्षात् अधिकं कालं कश्चन कृषकः लम्बरदाररूपेण न नियोज्यते इति नियमः अपि अस्ति।
नवमुख्यानियुक्त्यर्थं नूतनाः निर्देशाः —
नार्कोटिक्सविभागेन नियुक्तिप्रक्रियायां षटाधिकनियमाः प्रवर्तिताः। तत्र यः कृषकः ग्रामे उच्चतमऔसतं उत्पादितवान् स एव मुख्यः (लम्बरदारः) भविष्यति। तदनन्तरं सीपीएस (डोडे बिना चीरा) तथा गमपद्धतिः (डोडे पर चीरा) इत्येतयोः मध्ये यत्र ५०% अधिकाः कृषकाः स्युः, तस्मिन् वर्गे एव नियुक्तिः भविष्यति। कृषकस्य गतवर्षे ५०% रक्बात् अधिकं रक्बं शुद्धोत्पन्नं भवेत्। कृषकः शिक्षितः, तस्मिन् ग्रामे निवासी च स्यात्, उच्चतरमाध्यमिकविद्यालयं उत्तीर्णः च भवेत्।
जनपद-अफीम-अधिकारी चित्तौडगढ खण्डप्रथम बद्रीनारायणमीणेन उक्तं यत् अस्मिन् वर्षे मुख्यानियुक्त्यर्थं नूतनाः नियमाः प्रवर्तिताः। मुख्यानां शिक्षितत्वं, अष्टमकक्ष्या-उत्तीर्णता च अपेक्ष्यते। किन्तु कतिपयग्रामेषु तदर्थं कठिनता दृश्यते। तथापि विभागीयनिर्देशानां पालनं प्रवर्तमानं अस्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता