उच्च शैक्षणिक संस्थानेषु प्रवेशेषु अन्वेषणे त्रि सदस्यीयपरिशीलनसमितिः गठिता
--जांच समिति एक सप्ताह में जांच कर जिलाधिकारी को रिपोर्ट सौंपेगी
जिला अधिकारी अनुज सिंह।


मुरादाबादम्, 15 अक्टूबरमासः (हि.स.)।जिलाधिकारी अनुजसिंहस्य आदेशेन जनपदस्थेषु सर्वेषु निजी-विश्वविद्यालयेषु, निजी-महाविद्यालयेषु, अन्येषु च उच्च-शैक्षणिक-संस्थानेषु संपन्नानां प्रवेशानां (दाखिलानां) परीक्षणं भविष्यति। त्रिसदस्यीय-परीक्षण-समितिः सप्ताहे एकस्मिन् परीक्षणं कृत्वा प्रतिवेदनं जिलाधिकारीभ्यः प्रस्तुत्य दास्यति।

उत्तरप्रदेश-शासनस्य आदेशेन जिलाधिकारिणा त्रिसदस्यीय-समितिः गठिता। अस्यां समितौ अपर-जिलाधिकारी (प्रशासन) गुलाबचन्द्रः, पुलिस-अधिक्षकः (यातायात्) सुभाषचन्द्र-गंगवारः, जिलाविद्यालय-निरीक्षकः देवेन्द्रकुमार-पाण्डेयः च सम्मिलिताः।

एषा त्रिसदस्यीय-समितिः संस्थासु निरीक्षणं करिष्यति यत्—कतानि पाठ्यक्रमाणि तत्र संचालितानि सन्ति, तेषु पाठ्यक्रमेषु कति विद्यार्थी पञ्जीकृताः, पाठ्यक्रमाणां मान्यता कुत्रतः प्राप्ता, पाठ्यक्रमविवरणं, कोर्स्-वारं आसनसङ्ख्या च इत्येतद् सर्वं विवरणं लेखनीयं।

सह, प्रत्येक-संस्थायाः पक्षेण शपथपत्रं अपि प्रदेयम् यत् संस्थया केवलं मान्यता-प्राप्ताः पाठ्यक्रमाः एव संचालिताः सन्ति।

अपर-जिलाधिकारी (प्रशासन) गुलाबचन्द्रः बुधवासरे अवदत् यत् परीक्षणकाले एतत् दृष्टव्यं भविष्यति—कच्चित् संस्थया केनचिद् विद्यार्थिना अमान्य-पाठ्यक्रमे प्रवेशो न कृतः इति।

हिन्दुस्थान समाचार