Enter your Email Address to subscribe to our newsletters
गौतमबुद्धनगरम्, 15 अक्टूबरमासः (हि.स.)।राष्ट्रिय-साइबर-सुरक्षा-जागरूकता-मासस्य अवसरः सन् १५ अक्टूबर-दिने गौतमबुद्धनगर-पुलिसेन जनपदस्थेषां सर्वेषां विद्यालयानां महाविद्यालयानां च विद्यार्थिभ्यः यूट्यूब्-प्रत्यक्षप्रसारणेन सह सम्बद्ध्य साइबर-अपराधस्य प्रति जागरूकता जनिता। अस्मिन कार्यक्रमे स्वयं पुलिसायुक्ता श्रीमती लक्ष्मी सिंह, अपर-पुलिसायुक्तः (कानून-व्यवस्था) डॉ॰ राजीव नारायण मिश्रः, अपर-पुलिस-उपायुक्ता शैव्या गोयल, अन्ये च पुलिस-अधिकारीगणः सम्मिलिताः आसन्।
सोशल-माध्यमेन पुलिसेन लक्षाधिकाः छात्राः छात्राश्च साइबर-अपराधानां प्रति सजगाः कृताः। तेषां प्रति अपराधेभ्यः रक्षणाय आवश्यकं ज्ञानं अपि प्रदत्तम्।
पुलिसायुक्तया श्रीमती लक्ष्मीसिंहया उक्तं यत् “साइबर-जन-जागरूकता” इत्येतत् अत्यन्तं महत्वपूर्णं विषयः। एषः अभियानः जनान् साइबर-अपराधेभ्यः रक्षितुं अत्यावश्यकः सिद्धः भविष्यति।
सा अपि अवदत् यत् अस्यै एव योजनायै अन्तर्गतं भविष्ये समाजनिवासिनः, कम्पनीनां कर्मचारीणः, सेकट्रेषु निवसन्तः जनाश्च बृहद्भिः स्तरैः संयोज्य साइबर-जागरूकताविषये प्रमुखा सूचना प्रदास्यते।
तया अपि उक्तं यत् अस्याः योजनायाः अन्तर्गतं ऑनलाइन-माध्यमेन “साइबर-जागरूकता-चैलेंज्” अपि आयोज्यते, यस्मिन् गौतमबुद्धनगर-आयुक्तालयस्य अधीनप्रदेशेषु रील्, पोस्टरं, साइबर-जागरूकता-संबद्धं पत्रलेखनं च प्रतियोगितारूपेण आयोजितुं प्रस्तावितम् अस्ति।
---------------
हिन्दुस्थान समाचार