Enter your Email Address to subscribe to our newsletters
नवदेहली 15 अक्तूबरमासः (हि.स.) रेलमन्त्री अश्विनिवैष्णवः बुधवासरे राजधानीस्थे भारतमण्डपम् इत्यस्मिन् एशियायाः महत्तमायाम् रेलयानपरिवहनसम्बद्धायां प्रदर्शनी — “षोडशमं अन्ताराष्ट्रियरेलयानरणप्रदर्शनम् (IRE 2025)” उद्घाटितवान्। एषा त्रिदिवसीया प्रदर्शनी सप्तदशतमे अक्टूबरदिनाङ्के पर्यन्तं जनानां कृते मुक्ताभविष्यति। अस्य आयोजनस्य प्रमुखोद्देश्यः रेलक्षेत्रे नूतनता, आधुनिकीकरणं, आत्मनिर्भरता च प्रोत्साहयितुम् अस्ति।
अस्मिन् अवसरे भारतीय-उद्योगपरिषद् (CII) तथा गति-शक्तिविश्वविद्यालययोः मध्ये कौशलविकास-नवोन्मेषयोः प्रोत्साहनार्थम् एकं सन्धिस्मारकं (MoU) हस्ताक्षरितम्। तदनन्तरं CII तथा एशियाई-विकास-बैंक (ADB) इत्येताभ्याम् संयुक्तरूपेण “On the Right Track” इति शीर्षकयुक्ता एका रिपोर्ट् प्रकाशिताभवत्, यस्यां भारतीयरेलस्य परिवर्तन-विकासयोः दिशां प्रतिपादितम् अस्ति।
रेलमन्त्री वैष्णवः उद्घाटनसत्रे उक्तवान् यत् IREE इति आयोजनं भारतीयरेलविभागस्य ऐतिहासिकम् अवसरम् अस्ति, यस्मिन् पञ्चदशदेशात् उपकरणनिर्मातारः बहवः तथा MSME इकाई भागं गृह्णन्ति। एषः समयः अस्ति, यदा अस्माभिः उपकरणानां गुणवत्तां, रेलस्य आधुनिकीकरणं, नूतन-प्रविधीनां प्रयोगं च गम्भीरतया पुनर्विचारयितव्यम्।
तेन उक्तं यत् गतएकादशवर्षेषु प्रधानमन्त्रिणः नरेन्द्रमोदीनः नेतृत्वे रेलक्षेत्रे अभूतपूर्वपरिवर्तनानि जाताानि। अद्य पर्यन्तं पञ्चत्रिंशत्सहस्रकिलोमीटर-दीर्घाः नूतनाः पथिकाः (पटर्यः) प्रसारिता। देशे षट्पञ्चाशत् “वन्देभारत” एक्स्प्रेस्, त्रिंशत् “अमृतभारत” तथा चत्वारः “नमोभारत” इत्याख्याः रेलयानानि प्रवर्तमानानि सन्ति, ये यात्रिकानां मध्ये अतीव लोकप्रियानि। वर्तमानकाले भारतीयरेलः प्रतिवर्षं सप्तसहस्रं कोच् निर्माणं करोति।
तेन दीर्घदूरीरेखासु “पुष्-पुल्” नामकां प्रविधिं स्थापयितुं बलं दत्तम्। उक्तवान् च यत् एषा प्रविधिः द्विसहस्रपञ्चशतकिलोमीटर-त्रिसहस्रकिलोमीटरदीर्घयात्रासु अतीव उपयोगिनी भविष्यति। आगामिवर्षेषु सर्वासु दीर्घयात्रिकारेखासु एषा प्रविधिः अनिवार्यतया प्रयुज्यते। भारतीयरेलया “अमृत भारत 4.2” इति नूतनपीढीरेखासंविधानस्य तथा “सामान्ययात्रिकलोकोमोटिव्” इत्यस्य विकासे कार्यं प्रचलति, यत् षट्त्रिंशन्मासेषु पथिकायाम् स्थापयिष्यते।
गुणवत्तानियन्त्रणे दृढसन्देशं दत्त्वा रेलमन्त्रिणा उक्तं यत् हीनगुणवत्तायुक्तानां उपकरणानां यन्त्रानां च आपूर्तिकर्तृभ्यः प्रति कोऽपि सौम्यभावः न दर्शयिष्यते। रेलबोर्डं प्रति आदेशः दत्तः यत् उत्पादप्रक्रियायाम्, गुणवत्तापरीक्षणे, सामग्रीचयने च कठोरनिरीक्षणव्यवस्था स्थापनीया।
तेन उक्तं यत् भारतीयरेलः “हाइड्रोजन-पॉवर्” नामकया नूतनया प्रविध्या अपि आत्मनिर्भररूपेण कार्यं कुर्वन् अस्ति। अस्यां हाइड्रोजनरेले अस्माकम् अभियन्तृभिः एव पूर्णरूपेण रूपाङ्कनं कृतम्। एषा द्विसहस्रचत्वारिशत्किलोवाट्-क्षमतायुक्ता आधुनिकप्रविधिः भविष्यदिशां सूचयिष्यति।
कौशलविकासविषये बलं दत्त्वा वैष्णवः उक्तवान् यत् गति-शक्ति-विश्वविद्यालयः उद्योगैः सह साहाभागितां कृत्वा आधुनिकप्रशिक्षणक्रमान् संचालयति। एतत् संस्थानं त्रिवर्षेषु सुदृढरूपेण विकसितम्, अद्य उद्योगानां आवश्यकतानुसारं त्रिसप्ताहात् षड्वर्षपर्यन्तं पाठ्यक्रमान् निर्माति। सर्वे उद्योगाः एतस्य अवसरस्य लाभं गृह्णीयुः।
तेन उद्घोषितं यत् भारतीयरेलया त्रिवर्षेषु “पुल-सुरंग-रचना” विषयकं “कौशलकौटिल्यकेन्द्रं ” स्थाप्यते, यस्मिन् शतं विशेषज्ञरचनाकाराः कार्यं करिष्यन्ति। अत्र अन्तर्राष्ट्रीयविशेषज्ञैः सह सहभागीता तथा अत्याधुनिकसॉफ्टवेयरस्य उपयोगः भविष्यति।
IRE 2025 इत्यस्य एषः आयोजनः भारतीयरेलस्य तांत्रिक-औद्योगिकपरिवर्तनस्य प्रतीकत्वेन उद्भूतः अस्ति।
हिन्दुस्थान समाचार / ANSHU GUPTA