Enter your Email Address to subscribe to our newsletters
- कोंडाग्रामेषु 5 लक्षस्य पुरस्कृतमहिला नक्सली गीता अकरोत् आत्मसमर्पणम्
कांकेर/कोंडाग्रामः, 15 अक्टूबरमासः (हि.स.)।छत्तीसगढ़राज्यस्य नक्सलप्रभावितजनपदेषु आत्मसमर्पणवार्ताः निरन्तरं समुपस्थिताः सन्ति। अस्यै श्रृंखलायै अन्तर्गते बुधवासरे कांकेरजनपदस्य अरण्यप्रदेशेभ्यः निर्गत्य कामतेडा सीमासुरक्षाबलस्य (BSF) शिविरे शताधिकाः नक्सलिनः आत्मसमर्पणं कृतवन्तः। तेषां मध्ये प्रमुखकैडरनक्सलिनः राजूसलामः, कमाण्डरः प्रसादः, मीना च सम्मिलिताः। सर्वे नक्सलिनः बसयानकेन शिविरं प्राप्तवन्तः। सुरक्षा-कारणात् बीएसएफ्-शिविरे उच्चसतर्कतास्तरः (हाई अलर्ट्) प्रख्यापितः। माडप्रभागेन अपि १५ अक्तूबरदिने आत्मसमर्पणस्य सूचनां दत्तां आसीत्।
राजूसलामः डिवीजनल-कमिट्याः सदस्यः, कम्पनी-सङ्ख्या ५ इत्यस्य कमाण्डरः आसीत्। सः रावघाटक्षेत्रे सक्रियः आसीत्। राजूसलामः गतविंशतिवर्षेषु कांकेरजनपदे संपन्नानां सर्वेषां घटनानां सूत्रधारः इति मन्यते। एतादृशेन महता नक्सलिसङ्ख्यया मुख्यधारायां प्रत्यागत्य नक्सलवादस्य उन्मूलनाय नूतनाः आशाः जाताः।
अधिकृतस्रोताः अवदन् यत् एषा शताधिकनक्सलिनां आत्मसमर्पणक्रिया यावत् समयेभ्यः सर्वाति-महान् आयोजनम् अस्ति। अस्मिन् उच्चस्तरीयाः कमाण्डराः, बहवः माओवादीसदस्याश्च भागं गृहीत्वन्ति। इदानीं कांकेर-पुलिस् आत्मसमर्पणकर्तॄणां सर्वेषां नक्सलिनां परिज्ञानाय (पहचानाय) संलग्नाऽस्ति। सम्भाव्यते यत् शीघ्रमेव एते जनपदमुख्यालये वा संभागमुख्यालये वा माध्यमैः (मीडिया) सह प्रस्तुताः भविष्यन्ति।
महिला-नक्सली-गीता आत्मसमर्पणं कृतवती।अस्मिन्नेव समये कोंडागांवजनपदे सक्रियाऽसीत् पूर्वबस्तरविभागस्य टेलरटीमकमाण्डर् (LBD) इति प्रसिद्धा, पञ्चलक्षरुप्यकपुरस्कृत्या महिला-नक्सली गीता उर्फ कमली सलाम इति, पुलिससामक्षं आत्मसमर्पणं कृतवती।महिलाया उक्तं यत् शासनस्य विकासयोजनाभिः, मार्गनिर्माणेन, मोबाइल-संजालविस्तारेण, विद्युत्-जलोपलब्ध्या, ग्रामेभ्यः प्रति गच्छद्भिः जनकल्याणकारिणीभिः योजनाभिः च प्रभाविताभूत्वा सा मुख्यधारायां प्रत्यागमनाय निर्णयं कृतवती।आत्मसमर्पणात् अनन्तरं गीतायै “छत्तीसगढ़-नक्सलवाद-उन्मूलन-नीतिः” अन्तर्गतं पञ्चाशत्सहस्ररूप्यकाणां प्रोत्साहनराशिः प्रदत्ता। तस्याः पुनर्वसननीत्याः अन्तर्गतं शासनस्य अन्यानि लाभाः अपि प्रदास्यन्ते।
-------------------
हिन्दुस्थान समाचार