Enter your Email Address to subscribe to our newsletters
न्यूयॉर्कम्, 15 अक्टूबरमासः (हि.स.)।भारतः संयुक्तराष्ट्रमानवाधिकारपरिषदायाः (यू.एन्.एच्.आर्.सी.) २०२६-२८ कार्यकालाय निर्वाचितः अभवत्। एषः भारतस्य सप्तमः कार्यकालः भविष्यति। परिषदया मङ्गलवासरे जातनिर्वाचनफलानि “एक्स्” नामक माध्यमे प्रकाशितानि। भारतस्य त्रिवर्षीयः कार्यकालः आगामी वर्षस्य जनवरी मासस्य प्रथमदिनात् आरप्स्यते।
यू.एन्.एच्.आर्.सी. इत्यस्य “एक्स्” सञ्चारमाध्यमे प्रदत्ते संदेशे उक्तम्— महासभया २०२६-२०२८ कार्यकालाय परिषदस्य चतुर्दश सदस्यदेशानाम् निर्वाचनं कृतम्। ते देशाः सन्ति — अंगोला, चिली, इक्वाडोर, मिस्रः, एस्टोनिया, भारतः, इराक्, इटली, मॉरीशस्, पाकिस्तानम्, स्लोवेनिया, दक्षिणआफ्रिका, यूनाइटेड् किङ्गडम्, वियतनाम् च।
महासभाया घोषणायां प्राप्तायां संयुक्तराष्ट्रे भारतस्य स्थायीप्रतिनिधिः पी. हरीश नामकः “एक्स्” माध्यमे लिखितवान् — “एषः निर्वाचनफलः मानवाधिकाराणां मौलिकस्वातन्त्र्यस्य च प्रति भारतस्य अचलां निष्ठां सूचयति।” सः लिखितवान् — “भारतं स्वकार्यकाले एतेषां लक्ष्यानां सिद्ध्यर्थं सर्वतोभावेन प्रयत्नं करिष्यति।” हरीशमहाभागः सर्वेषां प्रतिनिधिमण्डलानां प्रति समर्थनाय कृतज्ञतां अपि व्यक्तवान्।
उल्लेखनीयम् यत् ४७-सदस्यीयः मानवाधिकारपरिषद् इति संयुक्तराष्ट्रस्य प्रमुखः एकः अंगः अस्ति, यः विश्वे मानवाधिकाराणां संवर्धनरक्षणयोः कृते कार्यं करोति। महासभया सन् २००६ तमे वर्षे परिषद् स्थापिताऽभवत्, तदा एव भारतं प्रथमवारं तत्र निर्वाचितम् आसीत्।
---------------
हिन्दुस्थान समाचार