हरिद्वारे एकसहस्रकोटिरूप्यकव्ययेन निर्मिता भविष्यति विश्वसनातनमहापीठः, नवम्बरमासस्य एकविंशतिदिनाङ्के भविष्यति शिलापूजनम्
विश्वसनातनमहापीठः भविष्यति शिक्षासेवासाधनानां संगमः -: बाबा हठयोगी हरिद्वारम्, 15 अक्टूबरमासः (हि.स.)। तीर्थसेवान्यासस्य संरक्षकः परमाध्यक्षः बाबा हठयोगीमहाभागः उक्तवान् यत् तीर्थसेवान्यासस्य आश्रये निर्मीयमानस्य विश्वसनातनमहापीठस्य शिलापूजनसमारोह
बाबा हठ योगी की पत्रकार वार्ता


विश्वसनातनमहापीठः भविष्यति शिक्षासेवासाधनानां संगमः -: बाबा हठयोगी

हरिद्वारम्, 15 अक्टूबरमासः (हि.स.)। तीर्थसेवान्यासस्य संरक्षकः परमाध्यक्षः बाबा हठयोगीमहाभागः उक्तवान् यत् तीर्थसेवान्यासस्य आश्रये निर्मीयमानस्य विश्वसनातनमहापीठस्य शिलापूजनसमारोहः नवम्बरमासस्य एकविंशतितमे दिने भविष्यति। अस्य पीठस्य निर्माणे प्रारम्भे पञ्चशतकॊटि रूप्यकाणां व्ययः कल्पितः आसीत्, किन्तु वर्धमानां परिकल्पनां, दिव्यां भव्यतां, व्यापकां च संरचनां दृष्ट्वा तस्य व्ययः सहस्रशतकॊटिरूप्यकपर्यन्तं भविष्यति।

एतत् विवरणं बाबा हठयोगीमहाभागेन बुधवासरे पत्रकारसमितौ पत्रकारेभ्यः प्रदत्तम्। सः अवदत्— “विश्वसनातनमहापीठः केवलं शिलासंरचनायाः प्रकल्पः नास्ति, अपितु भारतस्य आत्मनः पुनरुत्थानरूपः महान् संकल्पः अस्ति। अत्रतः धर्मस्य, सत्यस्य, करुणायाश्च ज्योतिः विश्वं आलोकयिष्यति, भारतस्य वैदिकतेजः पुनर्जन्मं गमिष्यति।”

सः अपि उक्तवान् यत् “विश्वसनातनमहापीठः केवलं स्थापत्यरचना न, किन्तु धर्मस्य, शिक्षायाः, मानवतायाश्च पुनर्जागरणकेंद्रं भविष्यति। अत्रतः विश्वाय पुनः वैदिकज्ञानस्य, संस्कृतेः, एकात्मतायाश्च संदेशः प्रदास्यते।”

पत्रकारसम्मेलने तीर्थसेवान्यासस्य अध्यक्षः तीर्थाचार्यः रामविशालदासमहाभागः उक्तवान्— “महापीठात् एकं विश्वम्, एकं धर्मम्, एकं ध्वजम्, एकं ग्रन्थं, एकं विधानं चेति आदर्शस्वप्नं साकारं भविष्यति। अत्र शिक्षायाः, सेवायाः, साधनायाश्च संगमः भविष्यति, यः आगामीयुगानां मार्गं प्रकाशयिष्यति।”

डॉ॰ गौतमखट्टरः उक्तवान्— “विश्वसनातनमहापीठः भारतस्य सांस्कृतिकपुनर्जागरणस्य केन्द्रबिन्दुरूपेण भविष्यति। एषः न केवलं धार्मिकदृष्ट्या, अपि तु वैज्ञानिकसामाजिकदृष्ट्या च मानवोन्नत्याः अद्वितीयं केन्द्रं भविष्यति।”

महामन्त्री महन्तः ओमदासः, राष्ट्रसमन्वयकः शिशिरचौधरी च उक्तवन्तौ— “अयं प्रकल्पः सनातनैकतायाः प्रतीकः अस्ति। भारतस्य सर्वे मतपन्थसंप्रदायपरम्पराः अत्र एकसूत्रेण बध्नन्तः विश्वस्य कृते आदर्शं प्रस्तुतोष्यन्ति।”

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता