निर्वाचनायोगो राजनीतिक दलेभ्यः दूरदर्शन-आकाशवाण्यां प्रचाराय आरब्धं डिजिटल वाउचर
नवदिल्ली, 16 अक्टूबरमासः (हि.स.)। बिहारविधानसभानिर्वाचनस्य पूर्वसन्ध्यायाम् निर्वाचनआयोगेन सर्वेभ्यः राष्ट्रियराज्यस्तरीयमान्यताप्राप्तराजनीतिकदलेभ्यः दूरदर्शन–आकाशवाण्योः माध्यमे निःशुल्कप्रचाराय डिजिटल्–वाउचर प्रदत्तानि। निर्वाचनआयोगस्य वक्तव्या
चुनाव आयोग (फाइल फोटो)


नवदिल्ली, 16 अक्टूबरमासः (हि.स.)। बिहारविधानसभानिर्वाचनस्य पूर्वसन्ध्यायाम् निर्वाचनआयोगेन सर्वेभ्यः राष्ट्रियराज्यस्तरीयमान्यताप्राप्तराजनीतिकदलेभ्यः दूरदर्शन–आकाशवाण्योः माध्यमे निःशुल्कप्रचाराय डिजिटल्–वाउचर प्रदत्तानि।

निर्वाचनआयोगस्य वक्तव्यानुसारं एते वाउचराः सूचनातन्त्रप्लेटफॉर्मद्वारा दलेभ्यः दत्ताः, येन ते स्वप्रचारकार्यक्रमेषु तेषां उपयोगं कर्तुं शक्नुवन्ति। एते कार्यक्रमाः दूरदर्शने च आकाशवाण्यां च प्रसारिताः भविष्यन्ति।

निर्वाचनआयोगः अवदत् यत्“कस्मिन् दिने कस्य दलस्य प्रचारः प्रसारितः भविष्यति” इति निर्णयः लॉटरीप्रणाल्या भविष्यति। एषा लॉटरी बिहारराज्यस्य मुख्यनिर्वाचनाधिकाऱ्याः कार्यालये सर्वदलगणप्रतिनिधिनां सन्निधौ उद्घाट्यते।

प्रत्येकं दलं प्रारम्भे ४५ निमेषपर्यन्तं दूरदर्शन–आकाशवाण्योः निःशुल्कप्रचारसमयं प्राप्स्यति। यानि दलानि गतविधानसभानिर्वाचने श्रेष्ठं प्रदर्शनं कृतवन्ति, तानि दलानि किञ्चित् अधिकं समयं अपि प्राप्स्यन्ति।

दलेभ्यः स्वप्रचारकार्यक्रमस्य रेकॉर्डिङ् (ध्वनिचित्रलेखनम्) तथा लिपिः (स्क्रिप्ट्) पूर्वमेव निर्वाचनआयोगाय प्रेषणीयम्। तद् रेकॉर्डिङ् प्रसारभारतेः निर्दिष्टस्टूडियोमध्ये वा दूरदर्शन–आकाशवाणिकेन्द्रेषु वा कर्तुं शक्यते। आवश्यकं यत् रेकॉर्डिङ् तांत्रिकनियमानुसारं सम्पन्नं भवेत्।

प्रसारभारती संस्थया द्वौ पैनलचर्चासभायौ वा विवादकार्यक्रमौ अपि आयोज्येते, यत्र सर्वदलेभ्यः एकं–एकं प्रतिनिधिं प्रेषयितुं अवसरः दत्तः।

निर्वाचनायोगः उक्तवान् यत् “अस्मिन्नेव पद्धत्याः माध्यमेन सर्वे दलाः समानसंधिं प्राप्स्यन्ति, जनतायाश्च सम्यग्, पारदर्शकं च निर्वाचनसम्बद्धं ज्ञानं भविष्यति।”

---------------

हिन्दुस्थान समाचार