Enter your Email Address to subscribe to our newsletters
-परिषद् समस्तविद्यालयेभ्यः 29 नवंबर यावत् पूर्णं करिष्यति निर्देशम्
भुवनेश्वरम्, 16 अक्टूबरमासः (हि.स.)।उच्चतरमाध्यमिकशिक्षापरिषद् (सीएचएसई), ओडिशा इत्यनेन आगामिनि वार्षिके उच्चतरमाध्यमिकपरीक्षायाः २०२६ विषये राज्यस्य सर्वेषां उच्चतरमाध्यमिकविद्यालयानां प्रति महत्वपूर्णनिर्देशाः प्रदत्ताः।
परीक्षणनियन्त्रकः डॉ. प्रशान्तकुमारः पारिडा सर्वेभ्यः प्राचार्येभ्यः प्रधानाचार्येभ्यश्च आदेशितवान् यत् परीक्षा सम्बन्धिनि महत्वपूर्णेषु स्थलेषु सीसीटीवी क्यामराणां अनिवार्यस्थापनं तथा सुचारुसंचालनं सुनिश्चितं कर्तव्यम्। एषः निर्देशः परीक्षा-व्यवस्थापनहबस्य स्ट्रॉङ्गरूम्, केन्द्रअधीक्षकस्य कार्यालयम्, परीक्षा-कक्ष/हॉल च स्व-स्ववित्तपोषितविद्यालयेषु प्रयोगशालायाः च स्थानेषु लागू भविष्यति।
अस्य कृत्यस्य उद्देश्यं परीक्षायाः सुचारु, पारदर्शी च सुरक्षित संचालनं सुनिश्चितं कर्तुं अस्ति। तथा च एतेषां स्थानानां लाइव्-स्ट्रिमिङ्ग् सीएचएसई, विद्यालयं, जनशिक्षाविभागं च सम्बन्धितजिल्लाकलेक्टरेटस्य अधिकारिभ्यः वास्तविकसमीक्षणाय उपलब्धं कर्तव्यम्।
परिषद् सर्वेभ्यः विद्यालयेभ्यः २९ नवम्बर् २०२५ पर्यन्तं सीसीटीवी प्रणालीस्थापनं परीक्षणञ्च समाप्तं कर्तुं कठोरसमयं निर्धृतवती। नवीनाः आवेदनकर्तृ विद्यालयाः अपि एषः निर्देशः अनिवार्यं पालनीयः।
---------------
हिन्दुस्थान समाचार