Enter your Email Address to subscribe to our newsletters
- पत्र लेखन प्रतियोगितायाः विजेतृभ्यः 5 सहस्रात् 50 सहस्रं यावद्रूप्यकाणां पुरस्कारः
प्रयागराजः, 16 अक्टूबरमासः (हि.स)।भारतीयडाकविभागेन जनानां मध्ये पत्रलेखनस्य प्रति प्रोत्साहनार्थं राष्ट्रीयस्तरे ‘ढाई आखर’ इत्याख्या पत्रलेखनप्रतियोगिता आयोज्यते। एषा पहलः न केवलं लेखनकौशलस्य संवर्धनाय अवसरं ददाति, अपि तु जनान् स्वसंवेदनाः सशक्तैः शब्दैः व्यक्तुं मंचं च प्रददाति।डाकमहानियन्त्रकः कृष्णकुमारयादवः गुरुवासरे उक्तवान् यत् अस्मिन् प्रतियोगितायां “एकः पत्रः स्वस्य आदर्शपुरुषस्य नाम” इति विषयपरः पत्रः लेखनीयः, यः सम्बन्धितराज्यपरिमण्डलस्य मुख्यडाकमहानियन्त्रकाय समर्पणीयः। अस्मिन् प्रतियोगितायां उत्कृष्टपत्राणां चयनानन्तरं ५ सहस्रात् आरभ्य ५० सहस्ररूप्यकपर्यन्तं पुरस्कारः दास्यते। विद्यालयाः महाविद्यालयाः च डाकविभागेन सह मिलित्वा स्वसंस्थाने अस्य आयोजनं कर्तुं शक्नुवन्ति। अस्य अन्तिमतिथिः ८ दिसम्बरः निश्चितः अस्ति।डाकमहानियन्त्रकः अवदत् यत् अस्मिन् ‘ढाई आखर’ नामके पत्रलेखनप्रतियोगितायां सर्ववयस्काः जनाः सहभागिनो भवन्तु इति। प्रथमवर्गः अष्टादशवर्षपर्यन्तः, द्वितीयवर्गः अष्टादशवर्षात् अधिकवयस्कानां स्यादिति निश्चितम्। पत्रं केवलं डाकविभागेन प्रकाशिते अन्तर्देशीयपत्रे वा लिफाफे एव स्वीकर्यः। तत्र ५०० अथवा १००० शब्देषु आङ्ग्लं, हिन्दी, अथवा प्रादेशिकभाषायां हस्तलेखितः पत्रः लेखनीयः। पत्रे स्वनाम, पूर्णपता, जन्मतिथि, चलदूरवाणीसंख्या, विद्यालयनाम च निर्दिष्ट्य सम्बन्धितपरिमण्डलस्य मुख्यडाकमहानियन्त्रकस्य पते प्रेषणीयः, स च ८ दिसम्बरात् पूर्वं प्राप्तव्यः।
प्रतियोगितायाः विजेतृभ्यः राज्यस्तरे राष्ट्रीयस्तरे च चतुर्षु श्रेणिषु त्रयः-त्रयः पुरस्काराः प्रदास्यन्ते। राज्यपरिमण्डले चयनितश्रेष्ठपत्राणां कृते प्रथमद्वितीयतृतीयस्थानानुसारं क्रमशः २५ सहस्र, १० सहस्रं, ५ सहस्रं रूप्यकाणि दास्यन्ति। राष्ट्रीयस्तरे तु क्रमशः ५० सहस्र, २५ सहस्र, १० सहस्र रूप्यकाणि दास्यन्ति। एतेन सम्पूर्णदेशे ४० लक्ष २० सहस्र रूप्यकपर्यन्तं पुरस्कारराशिः विजेतृभ्यः वितर्यते।
अस्य सम्बन्धे विस्तृतसूचनार्थं विभिन्नमण्डलानां अधीक्षकाः, प्रधानडाकगृहस्य पोस्टमास्तरः च सम्पर्क्याः स्युः।
कृष्णकुमारयादवः अवदत् यत् अद्यतनस्य डिजिटलयुगे, यत्र संवादस्य साधनानि शीघ्रतराणि सन्ति, तत्रापि पत्रलेखनस्य कला आत्मीयतया संवेदनशीलतया च अद्यापि प्रासंगिकत्वं धारयति। पत्रं केवलं शब्दानां विनिमयः न, किन्तु भावनानां, स्मृतिनां, मानवीयसंबन्धानां च गाम्भीर्यस्य प्रकाशनमाध्यमं भवति।
‘ढाई आखर’ नामका एषा राष्ट्रीयपहलः युवानां रचनात्मकतां, मौलिकतां, आत्माभिव्यक्तिं च प्रोत्साहयित्वा तान् डाकविभागेन फिलेटलीसहितं पुनः परिचितान् करोतु इति उद्देश्यं धारयति। एषः जनसामान्यस्य लेखनकौशलस्य प्रतिभायाः च प्रदर्शनाय अपि एकः उत्कृष्टमंचः अस्ति।अन्ते तेन उक्तं यत् ‘ढाई आखर’ अभियानं शब्दानां माध्यमेन हृदयानां संयोजनाय एकः प्रयासः अस्ति। एषः न केवलं पत्रलेखनकलेः उत्सवः, अपि तु संवेदनानां सजीवनाय, विचाराणां साकाररूपदाने च एकः अवसरः अपि भवति।
---------------
हिन्दुस्थान समाचार