Enter your Email Address to subscribe to our newsletters
कोलकाता, 16 अक्टूबरमासः (हि.स.)।पश्चिमबङ्गराज्यपालः डॉ॰ सी॰ वी॰ आनन्दबोसनामधेयः दुर्गापुरनगरे जातायां दलितविद्यार्थिन्याः सह घटिते कथितसामूहिकदुष्कर्मप्रकरणे विषये राष्ट्रपतिः द्रौपदीमुर्मुमहोदया तथा केन्द्रगृह मन्त्रालयं प्रति विस्तीर्णं प्रतिवेदनं समर्पितवान्। राजभवनस्य एका अधिकारिणा गुरुवासरे प्रातःकाले अस्य पुष्टि: कृता। उक्तं प्रतिवेदनं तेन दुर्गापुरं गतस्य, तत्र पीडितायाः कुलेन सह साक्षात्कृत्य लब्धवृत्तान्ताधारेण रचितम्।
राज्यपालः बोसनामधेयः बुधवासरे कोलकातानगरे आयोजिते वाणिज्यसम्मेलने स्त्रीणां प्रति वर्धमानां हिंसाचारघटनां विषये गभीरां चिन्ताम् अवोचत्। सः उक्तवान् — “अद्यतनकाले स्त्रीणां विरुद्धं ये अपराधाः दृष्टाः, तेषां मध्ये दुर्गापुरकाण्डमपि अन्तर्भवति। अधुना वक्तुं कठिनं यत् पश्चिमबङ्गराज्यं स्त्रीणां कृते सुरक्षितं स्थलं भवेत्।”
एषा घटना दशमे अक्टूबरमासस्य रात्रौ अभवत्। दुर्गापुरस्य एका निजीवैद्यकीयमहाविद्यालये द्वितीयवर्षे अध्ययनं कुर्वती ओडिशाराज्यातः आगता विद्यार्थिनी, स्वपुरुषसहचरिणा सह बहिर्गता सती, तदा सामूहिकदुष्कर्मपीडिता अभवत्।
पुलिससत्ता एतस्मिन् प्रकरणे अद्यावधि षट् जनान् गिरफ्तारं कृत्वा सर्वान् न्यायिकहिरासताम् उपनिनाय।राज्यपालः अस्मिन् प्रसङ्गे शासनव्यवस्थायाः अपि निन्दां कृतवान्। सः अवदत् — “यत् वयं पश्यामः, तत् केवलं हिमशैलस्य उपरितनभागः एव। तस्य अधः प्रशासनस्य अक्षमत्वं निहितं, यत् व्यवस्थापालनाय उत्तरदायी अस्ति।”
सः राज्यस्य पुलिसप्रशासनम् अपि प्रश्नचिह्नेन निरीक्षितवान्। बोसः उक्तवान् यत् राज्ये नियमव्यवस्थां धारयितुं पुलिसस्य मुख्यं दायित्वम् अस्ति। किन्तु वर्तमानस्थितिमवलोक्य वदितुं कठिनं यत् पुलिस स्वकर्तव्यं सम्यगाचरति इति। बङ्गालराज्यं ‘सॉफ्ट स्टेट्’ इव जातम्, यत्र न नियमपालनं सम्यक् भवति न च तस्य प्रवर्तनम्।”
हिन्दुस्थान समाचार