Enter your Email Address to subscribe to our newsletters
कोलकाता, 16 अक्तुबरमासः (हि.स.)।जादवपुरविश्वविद्यालये सततं वर्धमानां सुरक्षाचिन्तां दृष्ट्वा राज्यसर्वकारः पुनः सुरक्षाव्यवस्थां सुदृढीकर्तुं प्रयत्नं कृतवान्। कोलकाता-आरक्षकैः विश्वविद्यालयपरिसरे न्यूनातिन्यूनं द्विशतं CCT चित्रग्राहकानां स्थापनार्थं प्रस्तावः दीयते।
सूत्राणाम् अनुसारं सम्प्रति सर्वकारेण मुख्यं सॉल्टलेक-च परिसरयोः सप्ततिः CCT चित्रग्राहकानां स्थापनार्थं वित्तीय-अनुमोदनं दत्तम्। तदनन्तरं द्वात्रिंशत् प्रशिक्षितसुरक्षाकर्तृणां नियुक्तयेऽपि प्रस्तावः, वित्तविभागस्य अनुमोदनार्थं प्रेषितः।
विश्वविद्यालयस्य सूत्रैः उक्तं यत्, उपकुलाध्यक्षः लेखाध्यक्षश्च राज्यसर्वकारस्य प्रतिनिधिभ्यः द्वौ नूतनौ सुरक्षा-अधिकारी नियोक्तुं प्रस्तावः दत्तः। तेन सह, परिसरस्यान्तर्गतं सरोवरप्रदेशं परितः वेष्टनं कर्तुं, प्रकाशस्य श्रेष्ठा व्यवस्था च करणीयेति चोक्तम्।
विश्वविद्यालयेन पूर्वमेव उच्चशिक्षाविभागं प्रति द्वौ प्रस्तावौ प्रेषितौ आस्ताम्।प्रथमः प्रस्तावः सप्ततिः CCT चित्रग्राहकानां स्थापनार्थम् आसीत्, यस्य अनुमानितव्ययः ₹68,62,663 रूप्यकाणि इति निर्दिष्टः। तेषु पञ्चाशत् चित्रग्राहकाः मुख्ये परिसरे, विंशतिः सॉल्टलेकपरिसरे स्थापनीयाः आसन्।द्वितीयः प्रस्तावः द्वात्रिंशत् प्रशिक्षितसुरक्षाकर्तृणाम् (त्रिंशत् आरक्षकाः द्वौ पर्यवेक्षकौ च) नियुक्तये आसीत्, यस्य मासिकव्ययः ₹7,51,488 रूप्यकाणि इति स्वीकृत्य अभ्यर्थितः।
वित्तविभागेन विश्वविद्यालयं सूचितं यत्, सुरक्षाकर्तृणां नियुक्तिसम्बद्धः प्रस्तावः प्रथमं उच्चशिक्षाविभागेन एव वित्तविभागं प्रति प्रेषणीयः, ततः परं एव धनवितरणे निर्णयः भविष्यति।उच्चशिक्षाविभागस्य एकः अधिकारी अवदत् — “यदा वित्तीय-अनुमोदनं लब्धं भविष्यति, तदा सुरक्षाकर्तृणां नियुक्तिः प्रक्रिया आरभ्यते।”
जादवपुरविश्वविद्यालयशिक्षकसंघस्य (JUTA) महासचिवः पार्थप्रतीमरायः नामकः उक्तवान् — “सन् २०२३ तमे वर्षे नवागन्तुकयौनउत्पीडनकारणात् छात्रमरणानन्तरं विश्वविद्यालयेन सुरक्षावृद्धये प्रार्थना कृता आसीत्। किन्तु द्वौ वर्षौ व्यतीतौ अपि एषः विषयः वित्तविभागं न प्राप्तः — एतद् विस्मयजनकम्।”
उल्लेखनीयम् यत्, विश्वविद्यालयस्य विधिव्यवस्थां प्रति अनेकाः जनहितयाचिकाः दत्ताः। तस्मिन् सन्दर्भे कलकत्ता-उच्चन्यायालयेन २६ सितम्बरदिने राज्यसर्वकारं विश्वविद्यालयप्रशासनं च प्रति आदेशः दत्तः यत् 15 अक्तुबरतिथेः पूर्वं सुरक्षासुधारार्थं सभा करणीयेत्येव।
---
हिन्दुस्थान समाचार / Dheeraj Maithani