जम्मू कश्मीरयोः युवानः अधुना देशस्य इतिहास मूल्यैः आकांक्षाभिः च गहनतया युक्ताः-उपराज्यपालः
श्रीनगरम्, 16 अक्टूबरमासः (हि.स.)।उपराज्यपालः मनोजः सिन्हा गुरुवासरे उक्तवान् यत्, अद्यतनकाले जम्मूकाश्मीरप्रदेशस्य युवा: जनाः राष्ट्रस्य इतिहासेन, मूल्यैः, आकाङ्क्षाभिश्च सह गाढं सम्बन्धं स्थापयन्ति। ते अपि राष्ट्रनिर्माणाय विविधतां, परम्परां च स
जम्मू कश्मीर के युवा अब देश के इतिहास मूल्यों और आकांक्षाओं से गहराई से जुड़ रहे हैं-उपराज्यपाल


श्रीनगरम्, 16 अक्टूबरमासः (हि.स.)।उपराज्यपालः मनोजः सिन्हा गुरुवासरे उक्तवान् यत्, अद्यतनकाले जम्मूकाश्मीरप्रदेशस्य युवा: जनाः राष्ट्रस्य इतिहासेन, मूल्यैः, आकाङ्क्षाभिश्च सह गाढं सम्बन्धं स्थापयन्ति। ते अपि राष्ट्रनिर्माणाय विविधतां, परम्परां च संवर्धयन्तः सामूहिक-सांस्कृतिक-परिचयं प्रसारयन्ति।

उपराज्यपालः वेशॉ-साहित्य-महोत्सवस्य कुलगामनगरस्थस्य उद्घाटनसमारोहे वीडियो-संवादमार्गेण संबोधनं कृतवान्। द्विदिनात्मकः अयं साहित्योत्सवः ग्रन्थानां नूतनविचाराणां च विनिमयाय, चर्चायै च लेखकान्, कलाकारान्, पाठकांश्च एकत्र आनयन् साहित्यस्य उत्सवमाचरति।

उपराज्यपालः उक्तवान् यत् अयं लिट्-फेस्ट इत्याख्यः उत्सवः प्रदेशस्य अद्वितीयं आध्यात्मिक-सांस्कृतिक-महत्त्वं प्रकाशयिष्यति, स्त्रीलेखिकानां युवालेखकानां च रचनात्मककार्याणां प्रदर्शनाय एकं मंचं दास्यति च। एषः कार्यक्रमः साहित्यस्य मूल्यबोधं वर्धयिष्यति, सामाजिक-संबन्धान् दृढयिष्यति च।

तैः उक्तं यत् जम्मूकाश्मीरप्रदेशस्य प्रमुखलेखकानां साहित्यकृतयः पीढीभ्यः प्रेरणां ददाति। कुलगामनामकं स्थानं समृद्धायाः आध्यात्मिकबौद्धिकपरम्परायाः साक्षिरूपेण तिष्ठति। स एव स्थानः प्रकृतेः, आध्यात्मिकतायाः, संस्कृतेः च संगमनिबन्धनं भूत्वा एतत् पवित्रं क्षेत्रं जम्मूकाश्मीरस्य विरासतायाः मुख्यभागं करोति।

उपराज्यपालः युवाप्रतिभानां कृते अवसरनिर्माणस्य महत्त्वं प्रकाशयत् उक्तवान्— एते प्रयत्नाः न केवलं मानवीयरचनात्मकतां विस्तारयिष्यन्ति, अपि तु साहित्यं सामाजिकवैश्विकपरिवर्तनानां दर्पणरूपेण स्थापयिष्यन्ति।

ते उक्तवन्तः— प्रगतिशीलस्य जीवतः समाजस्य निर्माणे विज्ञानं, आध्यात्मिकता, साहित्यं च त्रयः बलवन्तः स्तम्भाः सन्ति। लेखकाः, चिन्तकाः, कवयः च साहित्यिकवैज्ञानिकआध्यात्मिकविरासतां पोषयितुं, लोकपरम्पराः समृद्धयितुं, सामाजिकसौहार्दं च सुदृढयितुं प्रयत्नं कुर्वन्तु।

ते अपि उक्तवन्तः— लेखकाः कवयश्च सार्वजनिकविषयेषु प्रकाशं कुर्वन्तु, उपेक्षितजनानां स्वररूपेण कार्यं कुर्वन्तु च।

अन्ते उपराज्यपालः लेखकान् कवीन् च संबोध्य उक्तवान्— जम्मूकाश्मीरप्रदेशे प्रचलमानानां मिथ्याकथानां प्रभावं सम्यगपनीय, नूतनपुस्तकानां सृजनशक्तिं जागरयन्तु, नूतनपीढीं यथार्थदीप्त्या परिचितां कुर्वन्तु, तान् च नूतनदृष्टिकोणेन प्रेरयन्तु।

हिन्दुस्थान समाचार