Enter your Email Address to subscribe to our newsletters
- राष्ट्रपति द्रौपदी मुर्मूः 17 अक्टूबर दिनाङ्के करिष्यति मध्य प्रदेशं सम्मानितम्भोपालम्, 16 अक्टूबरमासः (हि.स.)।मध्यप्रदेशराज्यं देशस्य आदि-कर्मयोगी-अभियान इत्यस्य क्रियान्वयने उत्कृष्ठं प्रदर्शनं कृत्वा प्रथमानां पञ्चानां राज्येषु स्थानं प्राप्तवान्। राष्ट्रपति द्रौपदी मुर्मु १७ अक्टूबरदिनाङ्के नूतनदिल्लीपुर्यां आयोजिते आदि-कर्मयोगी-अभियान सम्बन्धिनि राष्ट्रियसम्मेलने मध्यप्रदेशं सम्मानयिष्यन्ति। जनजातिकार्यार्थप्रधानसचिवः गुल्शन बाम्रा राज्यस्तरीयं पुरस्कारं स्वीकुर्युः। ते च मुख्यमंत्री डॉ. मोहन यादवस्य नेतृत्वे जनजातिसमुदायस्य सामाजिक-आर्थिकोत्थानार्थं क्रियमाणेषु प्रयत्नेषु प्रस्तुतीं दास्यन्ति।
जनसंपर्काधिकृतः अवनीश सोमकुंवरनामकः उक्तवान् यत् “पी.एम. जनमन” अन्तर्गतं शिवपुरीजनपदं उत्कृष्ठप्रदर्शनार्थं सम्मानं प्राप्स्यति। देशस्तरीयेषु उत्कृष्ठजनपदेषु बैतूलजनपदः अपि सम्मानं लप्स्यते। राज्यस्य उत्कृष्ठ-मास्टर-प्रशिक्षक-श्रेण्यां सहायकरसंधानाधिकारी सारिका धौलपुरिया अपि पुरस्कारं प्राप्स्यति। अन्येषां उत्कृष्ठप्रदर्शनकानां जनपदानां मध्ये बैतूल, धार, पूर्वी-निमाड़, बडवानी इत्यादयः विशेषतया उल्लिख्यन्ते।
राज्यस्तरीय-सुपर-कोच-मास्टर-ट्रेनररूपेण आदिवासिविकासोपायुक्तः जे.पी. यादवः अपि सम्मानितः भविष्यति। एकीकृत-जनजातिविकास-एजन्स्याः बडवानी, बैतूल, शिवपुरी च उल्लेखनीयगतिविधीनां क्रियान्वयनार्थं पुरस्कृताः भविष्यन्ति। “धरती-आबा-जनभागीदारी-अभियाने” गुना, बुरहानपुर, विदिशा च जनपदाः अपि उत्कृष्ठप्रदर्शनाय सम्मानं लप्स्यन्ते।
सोमकुंवरः उक्तवान्—“आदि-कर्मयोगी-अभियाने” १४ सहस्रग्रामेषु ग्रामक्रियायोजनाः निर्मिताः, ग्रामसभाभ्यः अनुमोदनं च प्राप्तम्। १३ सहस्रातिरिक्तेषु ग्रामेषु ‘आदि-सेवाकेन्द्राणि’ संस्थापितानि, यत्र आधारपत्राणि, आयुष्मानकार्डः, पीएम-किसान, जनधनखातम्, जातिप्रमाणपत्रम्, किसानक्रेडिटकार्डः, राशनकार्डः इत्यादीनि आवश्यकदस्तावेजानि प्रदत्तानि।
पी.एम. जनमन-योजनायाः अन्तर्गते हितग्राही-योजनानां क्रियान्वयने मध्यप्रदेशे उत्कृष्ठं कार्यं सम्पन्नम्। आधारपत्रं, जनधनखातं, आयुष्मानकार्डं, जातिप्रमाणपत्रं, किसानक्रेडिटकार्डं, पीएम-किसान-सम्माननिधिः, राशनकार्डं च सर्वं १०० प्रतिशतं पूर्तं जातम्। आयुष्मानकार्डनिर्माणे शिवपुरी, मैहर, रायसेन, कटनी, भिण्ड इत्येते जनपदाः उत्कृष्ठं प्रदर्शनं कृतवन्तः।
राज्ये १२ राज्यस्तरीय-मास्टर-ट्रेनरः, २८७ जनपदस्तरीयः, १२ सहस्र विकासखण्डस्तरीयः, १८१५० संकुलस्तरीयः प्रशिक्षकाः प्रशिक्षिताः। जनजातिकर्येषु सहयोगाय १ लक्षाधिकाः ४१ सहस्र आदि-सहयोगिनः तथा १ लक्षाधिकाः ९२ सहस्र आदि-साथिनः अपि कार्यरताः, ये जनजातिसमाजस्य नेतृत्वं वहन्ति।
भारतसर्वकारस्य जनजातिकार्यमन्त्रालयेन प्रारब्धः “आदि-कर्मयोगी-अभियानः” जनजातिसमुदायानां सामाजिक-आर्थिकविकासं प्रोत्साहयति। अस्य अभियानेन ग्रामस्तरे नेतृत्वक्षमताविकासः, योजनानां प्रभाव्यं कार्यान्वयनं च लक्ष्यीकृतम्। एषः अभियानः सेवा–संकल्प–समर्पण इत्येतेषां मूल्यानां अधिष्ठानेन जनजातिसमुदायं आत्मनिर्भरं, जागरूकं, सशक्तं च कर्तुम् उद्यतः अस्ति॥
__________
हिन्दुस्थान समाचार