Enter your Email Address to subscribe to our newsletters
श्रीशैलम्, 16 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातः आन्ध्रप्रदेशराज्यस्य एकदिवसीयभ्रमणार्थं कुरनूलनगरं प्राप्तवान्। प्रधानमन्त्रिणा प्रथमं श्रीशैलस्थे देवालये स्थितयोः भगवत्याः भ्रामराम्बायाः भगवान् मल्लिकार्जुनस्य च दर्शनं कृत्वा पूजाऽर्चनं च सम्पन्नम्।
प्रधानमन्त्री नरेन्द्रमोदी प्रातः एकादशवादने कुरनूल विमानपत्तने अवतीर्णवान्। तत्र राज्यपालः नजीरः, मुख्यमन्त्री चन्द्रबाबू नायडू, उपमुख्यमन्त्री च पवनकल्याणः च प्रधानमन्त्रिणं स्वागतवन्तः। ततः प्रधानमन्त्रिणा राज्यस्य मुख्यमन्त्रिणा उपमुख्यमन्त्रिणा च सह सैन्यविमानेन श्रीशैलं प्रति गमनं कृतम्।
तत्र श्रीशैलस्थं भ्रामराम्बा अतिथिगृहं निरीक्ष्य अल्पं विश्रान्तिं कृत्वा ते श्रीभ्रामराम्बा–मल्लिकार्जुनस्वामिवरदेवस्थानं प्रति गत्वा भगवानः मल्लिकार्जुनस्य विशेषपूजाऽर्चनां कृतवन्तः। देवालयस्य पुरोहितैः अधिकृतैश्च प्रधानमन्त्रिणः औपचारिकं स्वागतं कृतम्। प्रधानमन्त्रिणा भगवन्तं मल्लिकार्जुनं प्रति पंचामृतेन रुद्राभिषेकः कृतः। तत्र पूजां समाप्त्य अनन्तरं प्रधानमन्त्रिणा शिवाजी प्रेरणाकेन्द्रम् अपि अवलोक्यते।
नियतकार्यक्रमानुसारं प्रधानमन्त्री मोदी ततः कुरनूलं प्रति गमिष्यति, यत्र ते त्रयोदशसहस्राधिकमूल्यस्य परियोजनानाम् उद्घाटनं लोकार्पणं च करिष्यति। ततः प्रधानमन्त्रिणा जनसभां संबोधितुं नियोजितम्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता