Enter your Email Address to subscribe to our newsletters
नवदेहली, 16 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य आन्ध्रप्रदेशस्य प्रवासे भविष्यति। प्रधानमन्त्रिणा श्रीशैलं स्थिते प्रसिद्धे श्रीभ्रमराम्बा–मल्लिकार्जुनस्वामिवरदेवस्थानं प्रति पूजाऽर्चनं करिष्यते। ततोऽनन्तरं कुरनूलनगरे त्रयोदशसहस्राणि चतुःशतानि त्रिंशत्कोटिप्यकाणां (₹१३,४३० कोटि) मूल्ययुक्तानां विकासपरियोजनानां शिलान्यासं, उद्घाटनं च करिष्यति।
प्रधानमन्त्रिणः कार्यालयेन प्रदत्तसूचनानुसारं प्रधानमन्त्री प्रातः नन्द्यालजिलेलग्ने श्रीशैलं प्रसिद्धं श्रीभ्रमराम्बा–मल्लिकार्जुनस्वामिवरदेवस्थानं प्रति पूजाऽर्चनं करिष्यति। एतत् मन्दिरं द्वादशयोतिर्लिङ्गेषु द्विपञ्चाशत् शक्तिपीठेषु च एकम् अस्ति। अस्य विशेषता अस्ति—यत् अत्र एकस्मिन् एव प्राङ्गणे ज्योतिर्लिङ्गं शक्तिपीठं च उभयं स्थिते स्तः, येन एतत् देशे अद्वितीयं धार्मिकस्थलं भवति।
ततः प्रधानमन्त्री श्रीशैले स्थितं श्रीशिवाजीस्फूर्तिकेन्द्रं निरीक्षितुं गमिष्यति। एतत् केन्द्रं छत्रपतिशिवाजीमहाराजं समर्पितं स्मारकसमुच्चयः अस्ति, यस्य ध्यानमन्दिरस्य चतुर्षु कोणेषु तेषां प्रमुखेषु चतुर्षु दुर्गेषु—प्रतापगढम्, राजगढम्, रायगढम्, शिवनेरी—आदिनाम् आदर्शाः निर्मिताः सन्ति। केन्द्रे शिवाजीमहाराजस्य ध्यानमुद्रायां मूर्तिः प्रतिष्ठिता अस्ति। एतत् स्मारकं श्रीशैलयात्रायाः (वर्षे १६७७ तमे) स्मृत्यर्थं स्थापितं श्रीशिवाजीस्मारकसमित्या सञ्चालितं च भवति।
ततः प्रधानमन्त्री कुरनूलं गमिष्यति, यत्र अपराह्णे प्रायः सार्धद्विवादने (२:३०) सः प्रायः त्रयोदशसहस्राणि चतुःशतानि त्रिंशत्कोटिप्यकाणां (₹१३,४३० कोटि) मूल्ययुक्तानां विकासपरियोजनानां शिलान्यासम्, उद्घाटनं, राष्ट्रसमर्पणं च करिष्यति। प्रधानमन्त्री तस्मिन् अवसरे जनसभाम् अपि सम्बोधयिष्यति। एषु परियोजनासु उद्योगः, मार्गः, रेलमार्गः, ऊर्जायन्त्रिकी, रक्षानिर्माणम्, पेट्रोलियमं च प्राकृतिकगैसः इत्येते प्रमुखक्षेत्राः अन्तर्भवन्ति। अस्य लक्ष्यं प्रादेशिकं पायाभूतसंरचनां सुदृढीकर्तुम्, आन्ध्रप्रदेशस्य सामाजिक–आर्थिकविकासं च नवगतिं दातुम् अस्ति।
प्रधानमन्त्री २,८८० कोटिरूप्यकाणां मूल्ययुक्ते कुरनूल–तृतीय–पूलिङ्गस्थानके पारेषण–प्रणाली–सुदृढीकरण–परियोजनायाः आधारशिलां स्थापयिष्यति। अस्य फलरूपेण ६,००० एम्.वी.ए. परिवर्तनक्षमता वर्धिष्यते, नवीकरणीयऊर्जायाः पारेषणं च प्रोत्साहं प्राप्स्यति।
औद्योगिकविकासस्य बलेन प्रधानमन्त्री कुरनूलस्य ओर्वकल्–औद्योगिकक्षेत्रस्य, कडप्पायाः कोप्पर्थी–औद्योगिकक्षेत्रस्य च शिलान्यासं करिष्यति, यस्मिन् समग्रः निवेशः ४,९२० कोटिरूप्यकाणाम् अधिकः भविष्यति। एताभ्यां परियोजनाभ्यां प्रायः एकलक्षं रोजगारसृजनं, एकविंशतिसहस्रं कोटिप्यकाणां निवेशस्य आकर्षणं च अपेक्ष्यते।
मार्गसंरचनायाम्, प्रधानमन्त्रिणा ९६० कोटिरूप्यकाणां मूल्ययुक्तस्य सब्बावरम्–शीलानगरं षड्रेखीयस्य हरितमार्गस्य आधारशिला स्थाप्यते। अन्याश्च १,१४० कोटिरूप्यकाणां विविधमार्गपरियोजनाः उद्घाट्यन्ते, येभ्यः राज्यस्य यातायात्–सुरक्षा–संपर्कता च सुदृढा भविष्यति।
रेलमार्गक्षेत्रे प्रधानमन्त्रिणा १,२०० कोटिरूप्यकाणां परियोजनानां शिलान्यासः राष्ट्रसमर्पणं च करिष्यते। एषु कोट्टवल्स–विजयनगरं चतुर्थ–रेलमार्गः, पेंडुर्ती–सिम्हाचलम्–उत्तर–रेलफ्लायोवरः, शिमिलिगुडा–गोरपुर–खण्डस्य द्विरूपणं च अन्तर्भविष्यन्ति।
ऊर्जाक्षेत्रे प्रधानमन्त्रिणा १,७३० कोटिरूप्यकाणां मूल्ययुक्ते गेल्–इण्डिया–लिमिटेडस्य श्रीकाकुलम्–अंगुल–प्राकृतिकगैस–पाइपलाइनस्य, चित्तूरस्थ–इण्डियन–ऑयल्–एल्.पी.जी.–बॉटलिङ्ग–संयन्त्रस्य च उद्घाटनं करिष्यते। एतत् संयंत्रं ७.२ लक्षाधिकान् उपभोक्तॄन् लाभं दास्यति।
रक्षानिर्माणविकासार्थं प्रधानमन्त्रिणा कृष्णाजिलेलग्ने निम्मलुरुनाम्नि स्थले भारत–इलेक्ट्रोनिक्स्–लिमिटेड्–संस्थायाः “उन्नत–निशानिदर्शन–उत्पाद–कारखानां” राष्ट्राय समर्प्यते। एषा कारखाना, प्रायः ३६० कोटिरूप्यकाणां मूल्ययुक्ता, भारतीयसशस्त्रबलानां कृते उच्चस्तरीय–विद्युत्–प्रकाश–प्रणालीनां निर्माणं करिष्यति, येन रक्षाक्षेत्रे आत्मनिर्भरता सुदृढा भविष्यति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता