सांसदः विद्युतवरणमहतो खड़गपुरस्य मण्डलरेलप्रबन्धकेन सह सौजन्यमेलनं कृतवान्। रेलविकासकार्येषु विस्तृता चर्चा अपि अभवत्
खड़गपुरम्, 16 अक्टूबरमासः (हि.स.)। जमशेदपुरनगरस्य सांसदः विद्युत्‍वरणमहतो बुधवासरे खड़गपुरमण्डलस्य मण्डलरेलप्रबन्धकेन (डी.आर्.एम्.) ललितमोहनपाण्डेयेन सह तस्य कक्षे सौजन्यमेलनं कृतवान्। अस्मिन् अवसरे सांसदेन स्वसंसदीयराज्यसम्बद्धेषु विविधानि रेलविक
सांसद विद्युत वरण महतो खड़गपुर में


सांसद विद्युत वरण महतो खड़गपुर डीआरएम से भेट


खड़गपुरम्, 16 अक्टूबरमासः (हि.स.)। जमशेदपुरनगरस्य सांसदः विद्युत्‍वरणमहतो बुधवासरे खड़गपुरमण्डलस्य मण्डलरेलप्रबन्धकेन (डी.आर्.एम्.) ललितमोहनपाण्डेयेन सह तस्य कक्षे सौजन्यमेलनं कृतवान्। अस्मिन् अवसरे सांसदेन स्वसंसदीयराज्यसम्बद्धेषु विविधानि रेलविकासकार्यानि यात्रिसुविधासम्बद्धानि च विषयाः विस्तरेण चर्चिताः।

रेलविभागाधिकारिणः अवदन् यत्—सभाायां स्थानेषु आधारभूतसंरचनाविकासः, यात्रिसुविधापरिष्कारः, रेलयानसेवानां संचालनम्‌, स्वच्छताअभियानानि, तथा प्रगतौ स्थिताः परियोजनाः इत्येषां विषये विशेषः विचारविमर्शः अभवत्। सांसदेन रेलसेवानां उत्तमं क्रियान्वयनं यात्रिसुखसुविधाच प्रथमतया ग्रहणीयमिति आवेदितम्।

मण्डलरेलप्रबन्धकः ललितमोहनपाण्डेयः सांसदस्य रेलसेवावर्धने प्रदर्शितां सक्रियरुचिं सहयोगभावनां च प्रशंसाम् अकरोत्। सः आश्वासयामास यत् मण्डलप्रशासनस्य पक्षतः रेलसेवायाः उन्नयनाय विकासपरियोजनानां सफलक्रियान्वयनाय च पूर्णसहाय्यं प्रदास्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता