'ऑपरेशन सिंदूर' भारतस्य वर्धयन्त्याः स्वदेशी शक्तेः ज्वलंत प्रमाणम् : राजनाथसिंहः
मुंबई, 16 अक्टूबरमासः (हि.स.)।रक्षामन्त्री राजनाथसिंहः गुरुवासरे महाराष्ट्रस्य पुणेनगर्यां अवोचत् — “ऑपरेशन् सिंदूर” भारतस्य वर्धमाना स्वदेशीशक्ति: एकं ज्वलन्तं प्रमाणम् अस्ति, यत् आत्मनिर्भर-रक्षानिर्माण-पारिस्थितिकी-तन्त्रस्य स्थापनाय सर्वकारस्य
फोटो: पुणे में सिम्बायोसिस स्किल्स एंड प्रोफेशनल यूनिवर्सिटी के दीक्षांत समारोह को संबोधित करते हुए रक्षा मंत्री राजनाथ सिंह


मुंबई, 16 अक्टूबरमासः (हि.स.)।रक्षामन्त्री राजनाथसिंहः गुरुवासरे महाराष्ट्रस्य पुणेनगर्यां अवोचत् — “ऑपरेशन् सिंदूर” भारतस्य वर्धमाना स्वदेशीशक्ति: एकं ज्वलन्तं प्रमाणम् अस्ति, यत् आत्मनिर्भर-रक्षानिर्माण-पारिस्थितिकी-तन्त्रस्य स्थापनाय सर्वकारस्य अथकप्रयत्नैः प्राप्तम् अस्ति।

ते अद्य पुण्यपुर्यां सिम्बायोसिस् स्किल्स् ऐण्ड् प्रोफेशनल् यूनिवर्सिटी इत्यस्य दीक्षान्तसमारोहे छात्रेभ्यः विश्वासस्य दृढतायाश्च महत्त्वं व्याख्यायन्तः आसन्। ते अवदन् — यदा सरकारेण रक्षाक्षेत्रे आत्मनिर्भरतायाः प्रारम्भः कृतः, तदा आरम्भे तत् कठिनं प्रतीतं, किन्तु प्रधानमन्त्रिणः नरेन्द्रमोदीनः नेतृत्वे देशीय-रक्षानिर्माणस्य विस्ताराय सर्वतोभावेन यत्नः कृतः। तस्मात् दृढसंकल्पस्य परिणामरूपेण शुभफलानि प्राप्तानि।

सः अवदत् — “स्वातन्त्र्यलाभानन्तरं देशः आयुधनिर्माणे अन्यदेशेषु अत्यधिकं आश्रितः आसीत्। तस्मात् अस्माभिः न केवलं बाह्यदेशेभ्यः आयुधानि क्रीयन्ते स्म, अपि तु देशे निर्माणाय राजनैतिक-इच्छाशक्ति: अपि न्यूनास्ति स्म। तदर्थं नूतनं विधानं च आवश्यकम् आसीत्। अद्य अस्माकं संकल्पः अस्ति — भारतं स्वसेनायै स्वदेशे निर्मितानि शस्त्राणि एव निर्मास्यति।”

राजनाथसिंहः उक्तवान् — “ऑपरेशन् सिंदूर” कालान्तरे विश्वं सर्वं अस्माकं सैनिकानां वीर्यं दृष्टवन्। अस्माभिः निर्दिष्टं व्यापकं लक्ष्यं स्वदेशे निर्मितैः रक्षाउपकरणैः एव प्राप्तम्।

ते अवोचन् — गतदशवर्षेषु वार्षिकं रक्षाउत्पादनं ४६ सहस्रकोटि रूप्यकात् वर्धितं सन् अधुना १.५ लाखकोटिरूप्यकाणां स्तरं प्राप्तम् अस्ति, यस्मिन् निजीक्षेत्रस्य योगदानं ३३ सहस्रकोटिरूप्यकाणि अस्ति। सः वर्षे २०२९ तावत् त्रिलक्षकोटि रूप्यकाणां रक्षानिर्माणलक्ष्यं च पञ्चाशत्सहस्रकोटि रूप्यकाणां निर्यातलक्ष्यं च साध्यं भविष्यतीति विश्वासं प्रकटितवान्।

ते छात्रान् सम्बोध्य उक्तवन्तः — “साक्षरता एव न सिध्यते, यः जनहिताय ज्ञानस्य सार्थकं प्रयोगं करोति स एव यथार्थ-सफलः। भवद्भिः शैक्षणिकसिद्धिभ्यः परं सृजनकर्तारः, नवोन्मेषकाः, राष्ट्रविकासे सहयोगिनः च भवितव्यम्।”

प्रौद्योगिक्याः क्षेत्रे कृत्रिम-बुद्धेः (Artificial Intelligence) विषये सः अवदत् — “एतया न कर्मनाशः भविष्यति, न च मानवीयं श्रमं निवर्तयिष्यति। किन्तु ये ए.आई.-उपयोगिनः ते एव तेषां स्थानं गृह्णन्ति ये न उपयोगिनः। अतः एषा तन्त्रज्ञानं न मानवीयसंवेदनायाः, मूल्यस्य, नीतिशीलतायाः वा विकल्पः, अपि तु साधनं भवेत्।”

राजनाथसिंहः युवान् प्रति उक्तवान् — “स्वप्नसिद्धये प्रयत्नः कुर्वन्तु, अन्यैः तुलना न कुर्वन्तु।”

अन्ते, कार्यक्रमे रक्षामन्त्री राजनाथसिंहः महाराष्ट्रमुख्यमन्त्री देवेन्द्रफडणवीसश्च School of Defence and Aerospace Technology इत्यस्य उद्घाटनं कृतवन्तौ। तस्मिन् अवसरः राज्यसरकारस्य अन्यमन्त्रिणः विश्वविद्यालयस्य कुलपतिश्च

उपस्थिताः आसन्॥

---------------

हिन्दुस्थान समाचार