छत्तीसगढराज्ये भारतीयजनतापक्षस्य शासनस्य स्थापनाानन्तरं 2100 उग्रवादिनः आत्मसमर्पणं कृतवन्तः - अमितशाह:
गतद्विदिवसेषु समग्रतया 258 वामपन्थी उग्रवादिनः हिंसामार्गं परित्यज्य मुख्यधारायाम् आगताः। जगदलपुरम् 17 अक्टुबरमासः (हि.स.)दिने केन्द्रीयगृहमन्त्री अमितशाहः उक्तवान् यत्, “छत्तीसगढराज्ये 2024 जनवरिमासे भारतीयजनतापक्षं शासनं प्राप्तम्, तदनन्तरं 210
केंद्रिय गृहमंत्री अमित शाह ने सोशल मीडिया एक्स


गतद्विदिवसेषु समग्रतया 258 वामपन्थी उग्रवादिनः हिंसामार्गं परित्यज्य मुख्यधारायाम् आगताः।

जगदलपुरम् 17 अक्टुबरमासः (हि.स.)दिने केन्द्रीयगृहमन्त्री अमितशाहः उक्तवान् यत्, “छत्तीसगढराज्ये 2024 जनवरिमासे भारतीयजनतापक्षं शासनं प्राप्तम्, तदनन्तरं 2100 उग्रवादिनः आत्मसमर्पणं कृतवन्तः,1785 उग्रवादिनः गृहीताः , 477 निष्प्रभावीकृताः च। एतत् अस्माकं 31 मार्च् 2026 पर्यन्तम् उग्रतां मूलतः उन्मूलयितुं दृढसंकल्पस्य प्रतिबिम्बम् अस्ति।”

सः अपि उक्तवान् यत्, गुरुवासरे छत्तीसगढे 170 उग्रवादिनः आत्मसमर्पणं कृतवन्तः, तस्मात् पूर्वदिवसे 27 उग्रवादिनः शस्त्रं त्यक्तवन्तः। महाराष्ट्रे अपि 61 उग्रवादिनः शस्त्रत्यागं कृत्वा मुख्यधारायाम् आगताः। एवं द्विदिवसेषु समग्रतया 258 वामपन्थी उग्रवादिनः हिंसामार्गं परित्यक्तवन्तः इति सः अवोचत्।

अमितशाहः एक्स् नाम सोशलमाध्यमे लिखितवान्—“ये सर्वे हिंसां परित्यज्य भारतसंविधानस्य विषये स्वविश्वासं पुनः संस्थापितवन्तः, तेषां निर्णयः प्रशंसनीयः। प्रधानमन्त्रिणा नरेन्द्रमोदी नेतृत्वे सर्वकारस्य सततप्रयत्नानां परिणामः एव अयं यत् उग्रवादः अन्तिमश्वासं श्वसति। आत्मसमर्पणं कुर्वन्तः स्वागतार्हाः, परन्तु ये शस्त्रं धारयन्ति, ते सुरक्षाबलानां कठोरकार्यार्थं सज्जाः स्युः।”

सः सर्वान् उगवादीः प्रति अपि आह्वानं कृतवान्—“भवन्तः शस्त्राणि त्यजन्तु, मुख्यधारायां पुनरागच्छन्तु।”

केन्द्रीयगृहमंत्रालयेन अपि उक्तम् यत्, “देशे उग्रवाद-प्रभावितजनपदानां संख्या 18 तः 11 पर्यन्तं न्यूता अभवत्। तेषु अत्यधिकप्रभावितजनपदानां संख्या 6 तः 3 पर्यन्तं न्यूता जाता। अधुना केवलं छत्तीसगढराज्यस्य बीजापुर, सुक्मा, नारायणपुर इत्येते 3 एव अतीवप्रभावितजनपदाः अवशिष्टाः।”

हिन्दुस्थान समाचार / अंशु गुप्ता