Enter your Email Address to subscribe to our newsletters
चेन्नईनगरम्, 17 अक्टूबरमासः (हि.स.)। उपराष्ट्रपतिः सीपी राधाकृष्णनस्य चेन्नईनगरस्थे मायलापुरक्षेत्रे स्थिते निवासे विस्फोटकभयोत्पादनं प्राप्तायां सत्यां शासन-प्रशासनयोः व्यग्रता अभवत्। कश्चन अज्ञातः जनः आरक्षकान् प्रति इमेल् प्रेष्य भयोत्पादनं कृतवान्। ततः परम् आरक्षकैः सतर्कतां वहन्तः सर्वं निवासं सूक्ष्मतया परीक्षितवन्तः, किन्तु कस्यचित् विस्फोटकवस्तुनः चिन्हं न लब्धम्।
नवदिल्ली, बेंगलूरु, चेन्नई इत्यादिषु प्रमुखनगरिषु विद्यालयेषु, ख्यातपुरुषाणां गृहेषु च विस्फोटभयोत्पादनं सामान्यं घटमानाः सन्ति। शुक्रवासरे चेन्नई नगरस्य एस्टेट् आरक्षकस्थानकं प्रति एकम् इमेल् प्राप्तम्। तस्मिन् उक्तं यत् मायलापुरक्षेत्रे उपराष्ट्रपतेः निवासे विस्फोटः स्थाप्यते इति। ततः शीघ्रं वरिष्ठाधिकारिणः तां सूचनां गम्भीरतया ग्राहयामासुः। अल्पेनैव कालेन वरिष्ठआरक्षकाः, बम-निरोधकविशेषज्ञाः, सूक्ष्मग्रहणश्वानसमेतं आरक्षकदलम् च तत्र आगतम्। तैः सम्पूर्णं निवासं विस्तृतया परीक्षितम्, किन्तु किञ्चित् अपि संदेहास्पदं न लब्धम्।
वी.आई.पी. सुरक्षा-मानदण्डानुसारं अधिकारीणः पोएस् गार्डन् इत्यत्र स्थिते तस्य वर्तमानवासे अपि प्राप्ताः, परन्तु अपार्टमेण्ट् तत्काले निवारितम् आसीत्, अतः तत्र अन्वेषणं कर्तुं न शक्यते स्म। परिवृत्तप्रदेशे निरीक्षणं कृत्वा आरक्षकाः तद् प्रकरणं प्रवञ्चनमूलकं मन्यन्तः प्रत्यागच्छन्। आरक्षकविभागः तस्य भयोत्पादनं-इमेल् स्रोतसः अन्वेषणं करोति।
स्मरणीयं यत् उपराष्ट्रपतिः सीपी राधाकृष्णनः अस्यैव वर्षस्य सितम्बरमासे पदभारं स्वीकृतवान्। आरक्षकानुसारं ते मायलापुरस्थितं गृहं परित्यक्तवन्तः सन्ति। एकवर्षपूर्वं अपि तेषां प्रति एतत् भयोत्पादनं प्राप्तम् आसीत्। वर्तमाने ते चेन्नै-नगरस्य प्रमुखे पोएस् गार्डन् इत्यस्मिन् क्षेत्रे भाटकगृहे निवसन्ति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani