Enter your Email Address to subscribe to our newsletters
गांधीनगरम्, 17 अक्टूबरमासः (हि.स.)।गुजरातराज्यस्य गान्धीनगरे स्थिते राजभवने अद्य शुक्रवासरे प्रातःकाले गुजरातस्य मुख्यमन्त्री भूपेन्द्र–पटेल महोदयः राज्यपालं आचार्य–देवव्रतं जीम् उपसङ्गम्य तेन सह साक्षात्कारं कृतवान् तथा तस्मात् मन्त्रिमण्डल–विस्तारस्य अनुमतिं याचितवान्।
तदनन्तरं मन्त्रिमण्डल–विस्तार–कार्यक्रमः आरब्धः, यः सम्प्रति अपि प्रवर्तमानः अस्ति।
मुख्यमन्त्रिणा अद्य राज्यपालाय गुजरात–मन्त्रिपरिषदः वर्तमान–स्थिति अवगतापिता। सह तेन राज्यपालात् मन्त्रिपरिषदः सदस्यानां शपथ–ग्रहण–समारोहस्य आयोजनाय अनुमतिः अपि याचिता।
एतस्योत्तरं मन्त्रिमण्डल–विस्तार–कार्यक्रमः आरब्धः। अद्यापि कतिपय–मन्त्रिणः शपथं गृहीतवन्तः सन्ति। विस्तीर्ण–वृत्तान्तस्य प्राप्तेः अनन्तरं सम्पूर्ण–समाचारः प्रकाश्यते।
---------------
हिन्दुस्थान समाचार