उत्तराखंडे वनविश्वविद्यालयः-वन्यशोधं को सशक्तीकुर्यात् विश्वविद्यालय: -राज्यपालः
देहरादूनम्, 17 अक्टूबरमासः (हि.स.)।कुलाधिपति-राज्यपालः लेफ्टिनेन्ट् जनरल् गुरमीत् सिंह् महोदयः राजभवने राजकीय-विश्वविद्यालयानां कुलपतिभिः सह बैठकां आयोजितवान्। तस्मिन् सभासमये राज्यपालेन उक्तं यत्— विश्वविद्यालयाः केवलं शिक्षायाः केन्द्राणि न सन्ति
राज्यपाल लेफ्टिनेंट जनरल गुरमीत सिंह


देहरादूनम्, 17 अक्टूबरमासः (हि.स.)।कुलाधिपति-राज्यपालः लेफ्टिनेन्ट् जनरल् गुरमीत् सिंह् महोदयः राजभवने राजकीय-विश्वविद्यालयानां कुलपतिभिः सह बैठकां आयोजितवान्। तस्मिन् सभासमये राज्यपालेन उक्तं यत्— विश्वविद्यालयाः केवलं शिक्षायाः केन्द्राणि न सन्ति, अपि तु राष्ट्रनिर्माणस्य प्रमुखाः स्तम्भाः सन्ति। अस्माकं लक्ष्यं केवलं उपाधिप्रदानं नास्ति, किं तु तादृशान् युवानः सन्नद्धान् कर्तुं यतामहे, ये न केवलं रोजगारं प्राप्नुयुः, अपि तु समाजस्य, राज्यस्य, राष्ट्रस्य च विकासे योगदानं दद्युः।

राज्यपालः अवदत् यत् प्रत्येकः विश्वविद्यालयः एतत् सुनिश्चितं करोतु यत् तस्य छात्राः भविष्यस्य आवश्यकतानुसारं ज्ञानं कौशलं च लभेरन्। सः अवोचत् यत् परिवर्तमानं वैश्विकं परिवेशं दृष्ट्वा शिक्षा उद्योगजगत्, नवोन्मेषः, प्रौद्योगिकी च इत्येतैः सह संबद्धा भवेत् इति अत्यावश्यकम्। प्रत्येकं विश्वविद्यालयं प्रदेशस्य आवश्यकतानां, प्राकृतिक-संसाधनानां, सामाजिक-आव्हानानां च विचारं कृत्वा स्वपाठ्यक्रमान् अद्यतनान् करोतु।

तेन उक्तं यत् छात्राणां उद्योगैः, अनुसन्धान-संस्थानैः, स्टार्टअप्-जगतेन च सह सम्बन्धः स्थाप्यताम्, यथा ते व्यावहारिकं अनुभवम् अधिगच्छेयुः, भविष्यस्य तन्त्रज्ञान-व्यवसायिक-चुनौतिषु च सक्षमाः स्युः।

राज्यपालेन विश्वविद्यालयानां अलुमनाइ-नेटवर्कम् सुदृढं कर्तुं निर्देशः दत्तः। सः अवदत्— पूर्वछात्राः संस्थानस्य महती सम्पत्तिः भवन्ति। तेषां अनुभवः, मार्गदर्शनं, संसाधनानि च विश्वविद्यालयस्य विकासे अमूल्यं योगदानं ददाति।

तेन निर्देशः अपि दत्तः यत् प्रत्येके विश्वविद्यालये सक्रियं प्लेसमेंट्-सेंटरम् स्थाप्यताम्, यत् उद्योगजगतेन सतत् संवादं स्थापयेत्, छात्रेभ्यः च इण्टर्नशिप इति अथ च जीविकानाम् अवसरान् प्रदद्यात्।

बैठकायां राज्यपालेन विश्वविद्यालय-संबद्धतासम्बन्धिनां प्रकरणानां शीघ्रनिस्तारणाय निर्देशाः दत्ताः। तेन उक्तं यत् ये महाविद्यालयाः निर्दिष्टमानकं न पूरयन्ति, तेषां संबद्धता न दीयताम्।

राज्यपालः अवदत् यत् विश्वविद्यालयाः स्वैः गोदगृहीतग्रामेषु स्थानीय-आवश्यकतानुसारं योगदानं दद्युḥ। शिक्षासंस्थानानि केवलं परिसरपर्यन्तानि न स्युः, अपि तु समाजमध्यं प्रविश्य शिक्षा, स्वास्थ्य, पर्यावरण, आजीविका इत्यादिषु सकारात्मकं परिवर्तनं कुर्वन्तु।

तेन उक्तं यत् “एकं विश्वविद्यालयं–एकं अनुसन्धानम्” इति योजनान्तर्गतं सर्वैः विश्वविद्यालयैः उत्कृष्टं शोधकार्यं कृतम् अस्ति। तेन तस्य सराहना कृत्वा उक्तं यत्, अधुना अस्य योजनायाः द्वितीयः चरणः आरब्धव्यः, यत्र नूतनानि, प्रासङ्गिकानि, प्रभावशाली च अनुसन्धान-विषयानि चयनियन्ते, यथा शोधकार्यं प्रदेश-राष्ट्रयोः आवश्यकताभिः प्रत्यक्षं सम्बद्धं भवेत्।

राज्यपालः विश्वविद्यालयान् ए.आइ. (AI), नूतन-प्रौद्योगिक्यः, उदित-क्षेत्राणि च इत्येषु अध्ययनम् अनुसन्धानं च प्राधान्येन कर्तुं आह्वानं कृतवान्। तेन उक्तं यत् नूतन-प्रौद्योगिक्याः समुचितं प्रयोगं कृत्वा उत्तराखण्डस्य युवा वैश्विक-स्पर्धायै सज्जाः कर्तुं शक्यन्ते।

अन्ते सर्वे कुलपतयः स्वस्व-विश्वविद्यालयानां उपलब्धयः, चुनौतयः, आवश्यकताः च निवेदितवन्तः। राज्यपालः सर्वेषां बिन्दूनां समाधानाय यथोचितं सहयोगं दास्यामीति आश्वासनं दत्तवान्। सः अवदत् यत् सर्वे कुलपतयः उत्तमं कार्यं कुर्वन्ति इति दृष्ट्वा सः संतुष्टः। एषः सकारात्मकः परिवर्तनः उत्तराखण्डस्य उच्चशिक्षाक्षेत्रं नवोन्नतिपर्यन्तं नेष्यति इति तेन उक्तम्।

अस्मिन् अवसरे सचिवः राज्यपालस्य रविनाथरामन्, विधिपरामर्शी कौशलकिशोरशुक्लः, सचिवः डॉ. रंजीतकुमारसिन्हा, सचिवः डॉ. आर. राजेशकुमारः, सचिवः दीपेन्द्रचौधरी, सचिवः दीपक्कुमारः, अपरसचिवः आनन्दश्रीवास्तवः, कुलपति गोविन्दवल्लभपन्त-कृषिविश्वविद्यालयस्य च अन्ये उपस्थिताः आसन्।

---

हिन्दुस्थान समाचार